पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

७ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ५९

ताः प्रथमायां चित्यां यून उपदध्यात् । मध्यमायां विवयसः । प्रथमायामुत्तमायां च स्थविरस्य ॥ ३६ ॥

तासां तु विधिः -प्रथमायां द्वे चिल्या तरुणस्य तस्य तृतीया नास्ति । मध्यमाया चित्यां मध्यमवयसास्तिस्रोऽपि प्रथमायां चित्यामेको पञ्चम्यामेका स्वराडिति स्थविरस्य । रेत एवास्य सिक्तमाभ्यामुभयतः पारंगृह्णाति, इति द्यावापृथिवीसंस्तवात् । एकतगं त्वापस्तम्बेनोक्ताम्---अन्यतरामुपदध्यावेप्यस्य । यजुषेमां चामू चोपदधाति । मनसा मध्यमाम् , ( आप. श्री० १६-७-२०) इति । द्वेप्यस्योपदधातीति प्रतिषेधार्थम् । यजुषा पृथिवीं च द्यां चोपदधाति । उपांशु प्रथमतृतीययो. विधिः । तयोः पृथिवीधुलोकसंस्तवात् । मध्यमा द्वितीया, तां मनसोपदधाति--सनाड्: ज्योतिरिति यजुषैव ॥ ३६ ॥

बृहस्पतिस्त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्म तीमिति विश्वज्योतिषम् । अग्नेर्यान्यसि देवानामग्नेर्यान्यसीति द्वे संयान्यौ । मधुश्च माधवश्चेति द्वे ऋतव्ये । समानतया देवते भवतः ॥ ३७ ॥

विश्वज्योति:-बृहस्पतिस्त्वा सादयत्तिति या प्रणीता । अग्नेर्यान्यसीति संयान्यो, मधुश्च माधवश्चेति द्वे ऋतन्ये, समानतया देवते ॥ ३७॥

सर्वास्वृतव्यास्ववकामुपदधाति ॥३८॥

सर्वासु ऋतव्यासु, उपधाय द्वे पश्चादवकां तयोरुपर्युपदधाति । अवकासु साक्ष्यतीत्येके .( आप० औ०-१६-७-२२) इत्यापस्तम्बः ॥ ३८ ॥

घर्मेष्टकामुपदधाति । तस्याः प्रवर्ग्ये मन्त्र आम्नातः ॥ ३९ ॥

घर्मेष्टका तृपधेयोदस्य शुष्माद्भानुरिति प्रवर्यपरिपठितो मन्त्रः ॥ ३९ ॥

अषाढाऽसीत्युपरिष्टाल्लक्ष्माणमषाढां द्वेष्यस्याधस्ताल्लक्ष्माणं यास्ते अग्न आर्द्रा योनयो याः कुलायिनीः । ये ते अग्न इन्दवो या उ नाभयः । यास्ते अग्ने तनुव ऊर्जो नाम ताभिस्त्वमुभयीभिः संविदानः । इह प्रजानां तन्वा निषीदेति कुलायिनीम् ॥४०॥

उखया सह कृता द्वाभ्यामुपदधात्यषाढाम् । अषाढाऽसीति मध्येऽख्यालिखितां मध्य इति । यथा च्यालिखितोपरिष्टाद्भवति तथोपदधाति । तथा चोक्तं ब्राह्मणे-यं -