पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ५५ अधिकामति' इति वचनात् । सस्था यामि इति होमं हुत्वा वाङ्म आसन्निति जपत्यारोहन् । भाष्यकारस्तु-हुस्खोऽऽरोहणं जपति, इति अस्मिन्क्रमे शाखान्तर आन्नातो यः क्रम इति अपति सट्टा पश्चम्याम् । पुरीषमुपधाय प्रत्यवरोहणं जपति, इत्येतदपि श्रुत्यन्तरम् ॥ १४ ॥

तत्त्वा यामि ब्रह्मणा वन्दमान इति वारुण्यर्चा शालामुखीये जुहोति ॥ १५ ॥

प्रमोषीः स्वाहा । वरुणो देवता । शालामुखीये होमः । चयनाङ्गं शालामुखीयग्रहणं चित्थे मा भूद्धोम इति ॥ १५ ॥

अभ्यस्थाद्विश्वाः पृतना अरातीरिति प्राञ्चमश्वं दक्षिणेन पादेन दर्भस्तम्बमाक्रमयति ॥ १६ ॥

इदानी वाड्म आसन्निति अपत्यारोहन् सहाश्वेन | प्राञ्चं प्राङ्मुखम् । । अभ्य. स्थाविश्वाः' इति दक्षिणेन पादेन दर्भस्तम्बमाक्रमयति ॥ १६ ॥

यदक्रन्दः प्रथमं जायमान इति प्रदक्षिणमश्वं पर्याणयति ॥ १७॥

प्रदक्षिणमश्वं परिवयित्वा यदक्रन्द इति पुनरेवाऽऽक्रमयति दर्भस्तम्बम् ॥ १७ ॥

दक्षिणतो धार्यमाणेऽपां पृष्ठमसीति दर्भस्तम्बे पुष्करपर्णमधस्ताद्दण्डमुत्तानमुपदधाति ॥ १८ ॥

अपां पृष्ठमसीत्यश्वस्य पदे दर्भस्तम्चे पुष्करपर्णमधस्ताद्दण्डमुपदधात्युत्तानम्॥ १८ ॥

तपो योनिरसि विश्वाभिस्त्वा धीभिरच्छिद्रꣳ सजातवनस्यावारु(उ)पदधाम्यमृतं योनिर्ब्रह्म योनिः क्षत्त्रं योनिः पृथिवी योनिरन्तरिक्षं द्यौर्योनिर्दिशो योनिरिति वा ॥ १९ ॥

अनेन मन्मेण वा साभ्यं श्मपत्रोपधानम् ॥ १९ ॥

ब्रह्म जज्ञानमिति पुष्करपर्णे रुक्ममधस्तान्निर्बाधमुपदधाति ॥ ११.७.२० ॥

वि व इत्यन्तः । ब्रह्म जज्ञानमिति पुष्करपणेऽधःस्फोटकं रुक्ममुपदधाति । यो विष्णुक्रमणकाले भूतः स इति । यथाऽस्य च्छिद्रमुत्तरतो भवति तथोपदधाति रुखममा'दित्यस्वरूपम् । तमिमं मन्त्रं ब्राह्मणे विनियुक्ते'ब्रह्म जज्ञानमिति रुक्ममुपदधाति । '(ले० सं० ५-३.७) इत्यादि । २०