पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

.: सत्यापादविरचितं श्रौतसूत्रम्-... [११. प्रक्षे-, नियमार्था विधयः । अत एव प्रतीचोऽन्याजान्यजति, इत्यस्य वाक्यशेषे प्राञ्चमुत्तम संस्थापयत्युत्तमेनेत एव नु संभिनत्ति, इत्यत्र प्रत्यगपवर्गत्वे प्राप्ते-प्रासंस्था आहुतीदिधाय चरमयेतरयोरनुसंभेदेनेव प्रत्यक्त्वमुपपद्यते । ... ननु-पश्चात्प्राचीमुत्तमामुपदधाति तस्मात्पश्चात्प्राची पल्यवास्ते (१४-१-२..) इत्यत्राप्युक्तन्यायेन रीतिवादे प्राप्ते-गणेषु तथा संभवेऽन्येकड्यां तदयोगाचाक्यशेषे. कर्तृगतत्वेनैव विवरणाच्च कर्तुरेवायं मुखवादः पुरस्तास्प्रत्यश्चमिति कर्तुर्मुखवादः । पुरस्तात् प्रत्यश्चमिति तु कर्ममुखवादः ॥ ___ ननु–पुरस्तादन्याः प्रतीचीरुपदधाति पश्चादन्याः प्राची:, इत्यत्रापि कर्तुर्मुखवादः । पश्चात्प्राचीरिति पदस्य पूर्वाधिकरणे निर्णीतार्थकत्वात्संनिधानाचेति प्राप्ते-बहुवादिष्टकानामपवर्गनियमावेव विधी । तस्मात्प्राचीनानि प्रतीचीनानि च नक्षत्राण्यावर इति नक्षत्रमण्डलेष्टकाविन्यासस्तुतिदर्शनात् ।। ८ ।।.९ ॥ १० ॥

श्वेतोश्वो दक्षिणतस्तिष्ठति ॥ ११ ॥

दक्षिणतोऽग्नेः ॥ ११ ॥

तमालभ्येष्टका उपदधाति ॥ १२ ॥

यत्र श्वेतोऽश्वस्तिष्ठति तमालभ्य स्पृष्टेष्टकामुपदधाति । उत्तरतस्तु कृप स्तमाकम्प पुरीषमुपदधाति, इत्येषा श्रुतिद्धा सूत्रकारेण । अश्वावभितस्तिष्ठेमां. कृष्ण उत्तरतः श्वेतो दक्षिणतस्तावालभ्येष्टका उपदध्यादित्येतदपि लभ्यते ॥ १२ ॥

इन्द्रं विश्वा अवीवृधन्नित्यैन्द्रियर्चाऽऽक्रमणं प्रतीष्टकामुपदध्यात् ॥१६॥ उत्तरतः पश्चादुपचारो वाऽग्निः॥ १३॥

इन्द्र विश्वा अवीवृधन्निति पुच्छसंधेरुत्तरेणाऽऽरोहणं करिष्यामीति तत्रेष्टकामुपदधाति । अन्तर्विधप्रदेशे विधाः पुरुषा । अग्नेरभ्यन्तर इत्युक्तं भवति । यत्राऽऽक्रमत्यारोहणे तत्रेष्टकामुपदधाति । उत्तरे वा पक्ष आक्रमणं प्रतीष्टकामुपदध्यादिति । यद्युत्तरत उपचारोऽथवा पश्चात्पुच्छे वाऽऽक्रमणं प्रतीष्टकामुपदधाति । पदि पश्चादुपचारश्चिन्वन्नधिक्रामति, इति वचमात् । प्रथमाया चित्यामेव । केचित्तु-पिता चितावाक्रमणं प्रतीष्टकामुपद्धाति, इति । तन्न, एवमुपधान सूत्रेऽपि नास्ति ॥ १३ ॥

वाङ्म आसन्नसोः प्राण इत्यग्निमधिक्रामन्सर्वेष्वाक्रमणेषु जपति ॥ १४ ॥

हिसारित्यन्तः । वाङ्म आसन्निति पश्चस्वपि चितिष्वारोहणं जाति । प्रत्यवरोहर्ण चेति पुरीषमुपधाय श्रुत्यन्तरादयं विधिरिति गम्यते । अस्माकं तु सकृदेव चिन्व