पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ . 'सत्यापाढविरचिनं श्रौतसूत्रम्-.. [११ प्रश्नै___ अत्रातिश्यायास्तन्य प्रक्रमयति ( स० श्री. १७-०३-१७) इत्यारभ्य ध्रुवायाः शेषं करोति, इडान्ताऽतिथ्या(.७-३-११: ): इत्यस्तानि मौमिककर्माणि ॥ १ ॥

प्रथमाभ्यां पौर्वाह्णिकीभ्यां 'प्रवर्ग्योपसद्भ्यां प्रचर्याग्रेण प्राग्वꣳशꣳ रोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि प्रथमायाश्चितेरिष्टकाः सꣳसादयति ॥२॥।

प्रवग्यापसद्भया प्रत्ये सुब्रह्मण्यान्तामुपसदं कृत्वा, यदि पश्चादुपसत् । अग्रेण प्राग्वंशमदूरेण प्राग्नशम्य लोहित आनडुहे शकटवाहिनश्चर्माण, प्राचीना यस्य ग्रीवा तत्प्राचीनग्नीवम् । उत्तराणि लोमानि यस्य तदुत्तरलोम । तस्मिञ्छकटस्यो. परि स्थापिते प्रथमायाचितेनित्य इष्टकास्ता एकीकृत्य सादयति ॥ २ ॥

अपिवा तिस्रः स्वयमातृण्णाः सर्वाश्च विश्वज्योतिषः॥ ३॥

अथवा तिस्रः स्वयमातृष्णास्तित्रश्च विश्वज्योतिषः सादयतीत्यर्थः ॥ ३ ॥

दर्भाग्रमुष्ट्नाऽऽज्येनावोक्ष्य ताः समुद्यम्य चित्याग्निभ्यः प्रणीयमानेभ्योऽनुब्रूहीति संप्रेष्यति । प्रणीयमानेभ्योऽनुब्रूहीति वा ॥ ४ ॥

बृहस्पतिस्त्वा सादयतु पृथिव्याः पृष्ठे, इति या एतैर्मन्त्रैरुपधीयन्ते ताः। दर्भाप्रमुष्टिर्नाम प्रभूतमुष्टिस्तेन दर्भाग्रमुष्टिना । आज्येन विविधमवोक्ष्य सर्वेषु देशेषु समुद्यम्येति पाक्षिकः वदा तिखः । स्वयमातण्णास्तिस्त्रश्च विश्वज्योतिषस्तैदी "प्रथमनिते शिष्टकामामशक्यमेवोधमनम्। "चित्यग्नयः इष्टकाचित्यर्थास्तम्ब आनीयमानेभ्योऽनुवहोलि पार्थः। प्रणीयमानेभ्योऽनुबृहीति वा विकल्पश्रुतिरुद्गृह्यते ॥ ४ ॥

त्रिरनूक्तायामश्वप्रथमाः प्राञ्चो गच्छन्ति ॥ ५ ॥

प्रथमायां त्रिरक्तायामश्वं पुरस्कृत्य गच्छन्त्यध्वर्युब्रह्मयजमानाः ॥ ५.

उत्तरवेदिं प्राप्य प्रजापतिस्त्वा सादयतु तया देव तयाऽङ्गिरस्वद्ध्रुवा सीदेत्युत्तरवेदिमभिमृश्य मयि गृह्णामि यो नो अग्निरिति द्वाभ्यामात्मन्नग्निं गृहीत्वा यास्ते अग्ने समिधो यानि धामेति स्वयंचित्याऽभिमृशति ॥ ६ ॥

अभिमृशत्युत्तरवेदिम् ॥ १॥ .. ....