पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'सत्याषाढविरचितं श्रौतसूत्रम्-... [११ प्रश्ने

तथोपक्रमेत यथा तस्यां दिश्यपवर्गः स्यादुत्तरवेदिमुपवपति । यावानग्निर्व्याघारणान्तं कृत्वा ॥ ५४ ॥

प्राकृतेन प्रकारेणोलरवेदिं कुर्यात् । तस्यामुत्तरवेद्या पश्चादग्निश्चीयते । स्पष्टम

अग्ने तव श्रवो वय इति षड्भिः सिकता निवपति ॥ ५५ ॥

. रयिमित्यन्तः । षड्भिर्वालुका निवपति क्षिपति । एतान्मन्त्रान्विनियुङ्क्ते-- अग्ने तव श्रवो वय इति सिकता निवपति ' (तै० सं० ५-२-६) इत्यादि ।। ५५ ।।

चितः स्थ परिचित इत्यपरिमिताभिः शर्कराभिराहवनीयचितेरायतनं परिश्रयति यथागार्हपत्यचितेः ॥ ५६ ॥

चितः स्थ पार चित इति अपरिमिताभिरसंख्यामिराहवनीयचितेर्वेष्टनम् । यथैव गार्हपत्यस्य तित्रस्तित्रः संहिताः । न तु वनमित्यभिमन्त्रणम् । अथ वा सीदतेत्यन्तःशरैः क्रियन्ते निष्पाद्यन्त इति व्युत्पत्त्या शर्करा इति नाम संपन्नम् ॥ ५६ ॥ .. शर्करासु काम्यां संख्यामाह-

त्रिसप्ताभिः पशुकामस्य ॥ ५७ ॥

पारमिनुयादिति शेषः । त्रीणि सप्तकानि यासां शर्कराणां तास्त्रिसप्ताः । ताभिरेकविंशतिसंख्याकाभिरित्यर्थः । परिमिमुयात्परिमित्य स्थापयेत् ।। १७ ॥ अयान्या काम्यां संख्यामाह

त्रिणवाभिर्भ्रातृव्यवतः ॥ ५८ ॥

पारिमिनुयादित्यनुवर्तते । त्रीणि नवकानि यासां तास्त्रिणवाः सप्तविंशतिसंख्याका इत्यर्थः ॥ १८ ॥ पक्षान्तरमाह

अपरिमिताभिः परिमिनुयात् ॥ ५९ ॥

अपरिमित यो धनं कामयेत सोऽपरिमितकामः । यो वा सर्वान्कामाम्प्राप्तुमिच्छत्ति सोऽपरिमितकाम इति केचित् ।। ५९ ।