पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

४८ . सत्यापाढविरचितं श्रौतसूत्रम्- [११ प्रश्ने यद्वा--पुच्छादारभ्य शिरःपर्यन्तं तिस्त्र: सीताः कृषेत् । तथा दक्षिणात्पक्षादारभ्योत्तरपक्षपर्यन्तं तिस्रः सीताः कृषेत् । तथा दक्षिणस्याः श्रोणेरारभ्योत्तरांसपर्यन्तं तिस्रः सीताः कृषेत् । तथोत्तरस्याः श्रोणेरारभ्य दक्षिणांसपर्यन्तं तिनः सीताः कृषेत् । एवं द्वादश सीताः संपद्यन्ते ।। ३८ ॥ ३९ ॥

मध्ये संभिन्ना भवति । ४० ॥

कर्षणकाले मध्येऽन्तराले संभिन्ना भवेद्रेखा ॥ ४०

विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पा- रमस्य । ज्योतिरापाम सुवरगन्मेति दक्षिणेऽꣳसे बलीवर्दान्विमुच्योत्तरे वा प्राच उदीचो वोत्सृ- जति ।। ४१ ।।

विमुच्यध्वमिति बलीवर्दविमोको दक्षिणेऽसे । उत्तरे से वेति । यदि विपरीतम् ॥ ४१ ।।

तानध्वर्यवे ददाति ।। ४२ ।।

तान्विमुक्तानुदीचः प्राचो वा. नीत्वाऽथ यजमानोऽध्वर्यवे ददाति । स प्रतिगृह्णाति रुद्राय गामित्यनूहेन ॥ ४२ ॥

पञ्चदशोदचमसान्निनयति ।। ४३ ।।

पञ्चदशोदकपात्राणि निनयतीत्यापस्तम्बः ॥ ४३ ॥

द्वादशानुसीतं त्रीनकृष्टे ।। ४४ ।।

उदकपात्राणि कृष्टेषु निनयत्यध्वर्युः, इति वैखानसः । उदकवन्ति पात्राण्युदकपा... त्राणि तानि द्वादश कृष्टे । एकैकं सर्वासु सीतासु । वीण्यकृष्ट प्रदेशे ॥ ४४ ॥

या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति । सप्त ग्राम्या ओषधयः सप्ताऽऽरण्याः ।। ४५ ।।

अरिष्टतातय इत्यन्तः । तिलमाषत्रीहियवाः प्रियङ्ग्वणवो गोधूमाश्चेति सप्त ग्राम्या ओषधयः । वेणुश्यामाकनीवारजतिला गवीधुका मर्कटका गार्मुताश्चेति सप्ताssरण्या : ओषधयः । सर्वत्र या जाता ओषधयः, इति ओषधेरोषधेरैकैको मन्त्रो वपनार्थः । - ओषधीर्वपति ( तै० सं०५-२-५) इति विधिदर्शनाच ॥ ४५ ॥

कृष्टे ग्राम्या वपत्यनुसीतमकृष्ट आरण्याः ।। ४६ ।।

यदुक्तमापस्तम्बेन' सप्त ग्राम्याः कृष्टे सप्ताऽऽरण्या अकृष्टे ' (१६-६-१५) इति । तत्र ग्राम्याणां देशविशेष विधत्ते-- कृष्ट वपति' (तै० सं० १-१-५) इति । कृष्टे देशे वपति ग्राम्याः । एवमकृष्टे सप्ताऽऽण्याः । शेषमन्त्रा विकल्पाः ॥१६॥