पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

Gaadikichchh2 ६. पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ४७ .

पङ्क्तिं मज्ज्ञा प्रविशामि । ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सूराः । तन्नस्त्रायतां तन्नो विश्वतो महदायुष्मन्तो जरामुपगच्छेम देवा इति विमितमग्निमाक्रमन्ते ।। ३१ ।।

मलिम्लुचो नामासीत्याक्रमणमग्नेः-जरामुपगच्छेम देवा इत्येवमन्तेनाध्वर्युबलीवर्दकीनाशानाम् । भाष्यकारस्तु-ब्रह्मयजमानावाक्रमत इति । केचित्तु-पूर्वहोमो ब्रह्माणि, मलिम्लुचो नामासीत्येवमादीनि वर्माणीत्याहुः । जरामुपगच्छेम देवा इत्येवमन्ताः सप्त होममन्त्रा वर्मणाम् । विमितमग्निमाक्रमन्ते तूष्णीम् ॥ ३१ ॥

लाङ्गलं पवीरवमिति द्वाभ्यां कृषति ।। ३२ ।।

धत्तमित्यन्तः । द्वाभ्यां कृषत्यध्वर्युः ॥ ३२ ॥

कीनाशा बलीवर्दानजन्ति ।। ३३ ।।

ताडयन्ति कर्षका वैश्या इति वैखानसः ॥ ३३ ॥

पुच्छशिरोऽधि कृषति ॥ ३४ ॥

पुच्छादारभ्य शिरस उपरिष्टात्कृषति । शिर इति पूर्वमन्नेरुपचरति ॥ ३४ ॥

प्रदक्षिणमावर्तयंस्तिस्रस्तिस्रः सीताः सꣳहिताः कृषन्ति काम कामदुघे धुक्ष्वेति ।। ३५ ।।

पक्षयोः पुरतः- कामं कामदुघे ' इति प्रदक्षिणमावर्तयञ्जपतीति । तिस्रस्तिस्रः सीता लागलपद्धतिः, ताः कृषन्त्य( न्ति ) संभिन्नाः । प्रजाभ्य इत्यन्तः ॥ ३५ ॥

सीतां प्रत्यवेक्षते ।। ६६ ।। घृतेन सीतेति सीतान्तरालान्संमृशति ।। ३७ ।।

संस्पृशति ॥ ३६ ॥ ३७ ॥ कर्षणे प्रकारविशेषमाह-

दक्षिणस्मात्पक्षादुत्तरं पक्षमभिकृषति ।। ३८ ।। दक्षिणस्याः श्रोणेरुत्तरमꣳसमुत्तरस्याः श्रोणेर्दक्षिणमꣳसमितरथा वा द्वादश संपादयति ।। ३९ ।।

दक्षिणस्मात्पक्षादारभ्य यावदुत्तरतरतावदेका सीता । पुनरुत्तरस्मात्पक्षादारभ्य निवृत्तिस्तस्याः पूर्वेण द्वितीया । पुनर्दक्षिणस्मादारभ्य यावदुत्तरतः । तस्याः पूर्व, दक्षिणायै ( णस्याः ) श्रोणेरारभ्य यावदुत्तरोंऽसः, (रांसम् ) इति तिस्रोऽपि सीता उत्तराय ( रस्याः । श्रोणेदक्षिणांसं तथैव, विपरीतं वा । उत्तरस्याः श्रोणेः पूर्वम् । पश्चाद्दक्षिणाया उत्तरांसं कर्पति । काममिति मन्त्रस्याऽऽवृत्तिः, द्रव्यपृथक्त्वात् । कामं : कामदुध इति तथा पर्यावर्तते यथा विहाराभिपर्यावर्तनं भवति ।