पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

४६ , सत्यापाढविरचितं श्रौतसूत्रम्- [११ प्रश्नेबहून्युनः संप्रसारयन्तीति । केचित्तु युजाविति वचनाद्वावपि लम्येतें कर्षणार्थमित्याहुः । बलीवर्दसंख्यां विधत्ते-'षड्गवेन कृषति' (५-२-५) इति । कक्ष्यात्रयरूपेणावस्थितेषु त्रिषु युगेषु बध्यमानाः षट्संख्याका गावो वलीवर्दा यस्य लाङ्गलस्य तत्पड्गवम् । पक्षातर विधन्ते- 'यद्वादशगवेन ' (ते० सं० ५-२ ५) इत्यादि । कक्ष्याषट्कगतेषु वध्यमाना द्वादशसंख्याका गावो यस्य लाङ्गलस्य तवादशगवं; तेन कृषतीत्यर्थः । एवं चतुर्विशत्यि]न्तो विकल्पो ज्ञेयः ॥ २७ ॥

उष्टारयोर्बिल्वयोरथो आबन्धनीययोः । सर्वेषां विद्म वो नाम बाहाः कीलालपेशस इति युक्तान नुमन्त्रयते ।। २८ ।।

युक्तानामनुमन्त्रणम्-उष्टारयोरिति कीलालपेशस इत्यन्तः ॥ २८ ॥

ब्रह्मजज्ञानमित्येषा । अनाप्ता या वः प्रथमा यस्यां कर्माणि कृण्वते । वीरान्नो अत्र मा दभꣳस्तद्व एतत्पुरो दधे ।। पर्यूषु प्र धन्व वाजसातये परिवृ- त्राणि सक्षणिः । द्विषस्तरध्यै ऋणया न ईयसे ।। सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः । अस्य स्पशो न निमिषन्ति भूर्णयः पदे पदे पाशिनः सन्ति सेतव इति ब्रह्मवर्माणि जुहोति ।। २९ ।।

ब्रह्म जज्ञानमित्येका । पुरो दधे, इत्येवमन्ता द्वितीया । ऋणया न ईयस इत्यवेमन्ता तृतीया । सेतव इत्येवमन्ता चतुर्थी । ब्रह्मवाणीति होमनामं । एतैर्मन्त्रैर्यथा वर्म रक्षति तथा रक्षा क्रियत इति ब्रहावर्माणीत्युच्यन्ते ॥ २९ ॥

उदस्थाद्गोजिद्धनजिदश्वजिद्धिरण्यजित्सूनृतया परीवृतः । एकचक्रेण सविता रथेनोर्जं भागं पृथिवीमेत्वा पृणन्निति लाङ्गलमुच्छ्रयति ।। ११.६.३० ।।

लागलं योजनार्थमुत्क्षिपति ।। ३० ॥

मलिम्लुचो नामासि त्रयोदशो मास इन्द्रस्य वर्मा- सीन्द्रस्य शर्मासीन्द्रस्य वरूथमसि तं त्वा प्रपद्ये । सा मे शर्म च वर्म च भव । गायत्रीं लोमभिः प्रविशामि । त्रिष्टुभं त्वचा प्रविशामि । जगतीं माꣳसेन प्रविशामि । अनुष्टुभमस्थ्ना प्रविशामि ।