पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

दक्षिण ४४ . सत्यापाढविरचितं श्रौतसूत्रम्- .११ प्रो___ अथासिचयनभूमेः परिमाणं विधत्ते

यावान्पुरुष ऊर्ध्वबाहुस्तावता वेणुनाऽग्निं विमिमीते ।। १७ ।।

पुरुषोऽप्यूय प्रसारितस्य बाहोरुपार स्थितं वस्तु प्रष्टुं न शक्नोति । वेणुनानिषिमानं कुर्यात् । अथ वा यावान्यजमान ऊर्यवाहुस्तावामाणेन विमितमपि विध्यर्थ विमिमीते ॥ १७॥

त्रीन्प्राचः पुरुषाꣳश्चतुर उदीचस्तिर्यञ्चं पुरुषमात्राणि पक्षपुच्छानि भवन्ति ।। १८ ।।

त्रीन्प्राचः पुच्छादारभ्य प्रादेशं त्यक्त्वा चतुर उदीचो दक्षिणात्पक्षादारभ्यारनि त्यक्त्वोत्तरपक्षे समापयति । पुरुषप्रमाणानि पक्षपुच्छानि ॥ १८ ॥

आत्मा चतुःपुरुषोऽरत्निना दक्षिणतो दक्षिणं पक्षं प्रवर्धयति ।। १९ ।।

चत्वारः पुरुषा आत्मा । अरस्निना चतुर्विशत्यॉलैक्षिणतः पक्षं प्रवर्धयति दक्षिणे ॥ १९ ।

प्रादेशेन वितस्त्या वा पश्चात्पुच्छमरत्निनोत्तरत उत्तरं पक्षम् ।। ११.६.२० ।।

एवमुतरे, उत्तरं पतं प्रवर्धयति । द्वादशाङ्गुलेन पश्चात्पुच्छस्य वर्धनमग्रं (ने) वितस्त्या वा । वितस्तिमध्याङ्गुलिरङ्गुष्ठश्च प्रसारिते तदाऽपि न कारणान्तरम् । पुरीषेणैव संपूरणम् , एकविधादयो विकारा एव श्रूयन्ते सूत्रान्तरे- 'तदु ह वै सप्तविधमेव चिन्वीत सप्तविधो वाव प्राकृतोऽग्निस्तत ऊर्ध्वमेकोत्तरानिति वाजसनेयकम् । ( आप० श्री०१६-५-३१) इति । सप्तविधो वाव प्राकृतोऽग्निरिति वषडस्तु तुभ्यमिति तेप्वाप एकविधपरिमाणं यस्य स एकविधः । विध इति पुरुषाख्यः । पुरुषप्रमाणः पश्चारत्निः प्रथमाहारेऽग्निः । द्विपुरुषो द्वितीयः, एवमेव वर्धयत्येकैकस्य वृद्ध्या यावदेकशतविधाविति । सप्तविध इत्यारभ्य पक्षपुच्छानि, इति चान्तः । । अरनिः प्रादेशश्च यथाश्रुति संख्या, इष्टकानामूर्ध्वप्रमाणं च । अग्नीनामेकविधादीनां निन्दा विधाय श्रुत्यन्तरेण सप्तविध एव प्रथमश्चेतव्य इति विधीयते । सप्तविधश्च प्राकृतः प्रकृतिरित्यर्थः । तमधिकृत्यं समाम्नानात् । सप्तविधादारभ्यैकोत्तरशतं यावदेकशतविध इति । केचित्तु-प्रकृती भवः प्राकृत इति वर्णयन्ति । वाजसनेयिनामेषा श्रुतिरधिकविधेरनित्यत्वात् । अनित्यो विधावभ्यासः । वाजसनेयिनां मतमिति भाष्यकारः ॥ २० ॥