पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६. पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ४१

पञ्चचितीकं चिन्वीत प्रथमं चिन्वानस्त्रिचितीकं द्वितीयमेकचितीकं तृतीयम् ।। ३९ ।।

एकां चितिं कृत्वा पुरीषेणाऽऽच्छादयेत् । तस्या उपरि द्वितीयां चितिं कृत्वा तामध्याच्छादयेत् । एवं चितिपञ्चकेन पुरीपपश्चकेन च दशसंख्यासंपत्तेः प्रशंसति ब्राह्मणे- पञ्च चितयो भवन्ति एञ्चभिः पुरीषैरभ्यूहति दश. संपद्यन्ते । (ते. सं० ५.२-३) इति । पञ्चचितीक चिन्वीत गार्हपत्यचिति, अय५ सो अग्निरित्या. रम्य पुरीषान्ताः पञ्च चितयः। द्वितीय चिन्वानस्त्रिचितीकम् । एकचितकिं तृतीय चिन्वान इति ॥ ३९ ॥

एकचितीको नित्यः कल्पः ॥ (ख० १२) ॥४०॥

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने पञ्चमः पटलः ।। ५ ।।

अत ऊर्ध्वमेकचितीको नित्य आपस्तम्बकल्प इत्यर्थः । अत्र गार्हपत्यचितिकर्म । ॥ ४० ॥ इति हिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रि' कायामेकादशपने पश्चमः पटलः ॥ ५॥ .

11.6 अथैकादशप्रश्ने षष्ठः पटलः ।

समितमिति चतसृभिर्गार्हपत्यचितावुख्यं निवपति ।। १ ।।

भवतमद्य न इत्यन्तः । गार्हपत्याचितावुख्यं निवपति स्थापयति चतसृभिः ॥ १ ॥

मातेव पुत्रमिति शिक्यादुखां निरूहति ।। २ ।।

विमुञ्चत्वित्यन्तः । शिक्णदुखामानीयेति वैखानसः ॥२॥

अत्रैवैके पूरणमामनन्ति न रिक्तामवेक्षेत ।। ३ ।।

रिक्तामुखाम् ॥ ३॥

यदस्य पारे रजस इति वैश्वानर्या शिक्यमादत्ते ।। ४ ।।

वैश्वानरशब्दो यस्यामृच्यस्ति सेयं वैश्वानरी । । अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः' इति स्मृतेजीठराग्निरूपस्य वैश्वानरस्य स्वादुत्वकारित्वात्तदीयमन्त्रेणोपात्तं शिक्यं स्वदयत्येवेनन् (तै० से ५-२-४) इत्यर्थवादं स्वादुकृतं भवतीत्यर्थः । नतीरिष्टकाः पूर्वमादाय यदस्य पारे रजस इति वैश्वानर्यर्चा शिक्यं गृह्णाति । इह तु देवताज्ञानं नियत कर्माङ्गम् । अन्यत्र च यत्र तु देवतोच्यते छन्दो वाऽऽर्षो वा यत्र तु नोकं तत्र तु ज्ञानेऽभ्युदयः । अज्ञानेऽप्यवैगुण्यम् ॥ ४ ॥