पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

४. पर्टलः ] : महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३१ :

सदा ज्वलति ॥ ३ ॥

सदा नित्यो ज्वलति(१६ । । ।१९) इत्यापस्तम्बोक्तेः । व्रतकाल एव ज्वलति (वै श्रीमा । १) इति वैखानसः ॥ ३॥ :

अन्नपतेऽन्नं नो देहीति व्रतयिष्यन्नौदुम्बरीꣳ समिधं व्रते सत्रज्योख्येऽभ्यादधाति ।। ४ ।।

यदा व्रतं ग्रहीष्यस्तदोदुम्बरी समिधं व्रतार्थे क्षीरद्रव्ये समज्याङ्क्त्वा समिधं प्रक्षिपति यजमानः । व्रत इति सप्तमीनिर्देशान्मध्यंदिने मध्यरात्रे वा गृहीतो बेते यजमानेन । चतुष्पद इत्यन्तः ॥ ४ || ::

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां गायत्रेण च्छन्दसा रात्रिमिष्टकामुपदधे तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेति सायमुख्यमुपतिष्ठते ।। ५ ।। देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां गायत्रेण च्छन्दसाऽहरिष्टकामुपदधे तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेति प्रातः ।। ६ ।।

उख्यमुपतिष्ठत इत्यर्थः ॥ ६ ॥६॥

श्वोभूते दिवस्परि प्रथमं जज्ञे अग्निरित्येकादशभिर्वात्सप्रेणोपतिष्ठते ।।. ७।।

द्वितीयेऽहनि वात्सप्रेणोपतिष्ठते ' (ले० सं० ५-२-१ ) इति । वत्सप्रीनामकेन महर्षिणाऽधीत दिवस्परीत्यादिकं सूक्तं वात्सप्र, तेनाग्निमुपतिष्ठेत ॥ ७ ॥

एवꣳ सदाऽऽक्रयणात् ।। ८ ।।

एवमुक्तप्रकारेण यावत्क्रय इति ॥ ८ ॥

पूर्वेद्युर्विष्णुक्रमान्क्रामति । उत्तरेद्युरुपतिष्ठते वात्सप्रेणेति ।। ९ ।।

पूर्वेयुः पूर्वस्मिन्नहनि विष्णुक्रमान्कामति । उत्तरेझुरुपतिष्ठते वात्सप्रेणेति । विष्णु. क्रमा वात्सप्रं च प्रथमेऽहनीति प्राप्त उच्यते-पूर्वद्युः प्रक्रामति उत्तरेयुरुपतिष्ठते ( ते ० सं०५-२-३) इति । केचित्तु-प्रथमेऽहन्युभयं कुर्वन्ति विष्णुक्रमानवात्स चेति । द्वितीयादिप्वहःसु द्वितीयं विष्णुक्रमांस्तृतीय वात्सप्रमिति कुर्वन्ति न्यत्यासं सदा यावत्कयः ' इति । यदहस्तु सोमक्रयस्तदहरुभयं क्रियते विष्णुकमाः प्रथम पश्चाद्वात्तप्रमिति ॥ ९ ॥ १५. तेऽपीति पाठः।