पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

३० . सत्यापादविरचितं श्रौतसूत्रम्- १११.ने

औदुम्वर्यासन्द्यरत्निमात्र शीर्षण्वाऽनूच्य प्रादेशमात्रपादा मौञ्जविवाना फलकास्तीर्णा वा मृदा प्रदिग्धा सीद त्वं मातुरस्या उपस्थ इति तस्यां चतसृभिरुख्यं सादयति ।।. ३८ ।।

औदुम्बर्या आसन्धाः प्रकृतत्वात्सैव तस्यामिति परामृश्यते । बृहदित्यन्तः । सीद त्वं मातुरित्यादिभिश्चतसमिरोदुम्बर्यामुख्याग्निं स्थापयेत् । अथ वा-उदुम्बरेणं कृता औदुम्बरी । आदित्यस्यामित्यासन्दी । अनिमात्रशीर्षण्याऽनूच्या यस्याः पादाः प्रादेशमात्राश्च । यस्या मौनैः शुरुवैर्विवानं कृतम् । फलकैरास्तीर्णा वा । न मुञ्जविवाना, मृदा च प्रलिप्ता, उभयं यथा न दह्यते तथेत्यर्थः । सीद त्वं मातुरस्या उपस्थ इति चतसृभिस्तस्यां सादयत्युख्यम् ॥ ३८॥

शर्करायां वा ।। ३९ ।।

तिभिः सादयति (आप • श्री० १६ । ४ । १७) इत्यापस्तम्बः । शगया वा सादयति ॥ ३९ ॥

हꣳसवत्योपतिष्ठत इत्येके समामनन्ति ।। (ख० ८) ।। ११.३.४० । ।

इति सत्याषाढहिण्यकेशिसूत्र एकादशप्रश्ने तृतीयः पटलः ।

अौके शाखिनः हसः शुचिषत्, इति हंसंवत्योपस्थानमा नन्ति ॥ ४० ॥ । इति हिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयो गचन्द्रिकायामेकादशप्रश्ने तृतीयः पटलः ॥ ३॥ मन

11.4 अथैकादशप्रश्ने चतुर्थः पटलः ।

मुष्टिकरणप्रभृतीनि कर्माणि प्रतिपद्यते ।।१ ।।

मुष्टिकरणप्रभृति सौमिकानि कर्माणि कर्तुं प्रतिपद्यते । प्रथमस्य दीक्षादिवसस्य कर्मानुपूर्व्यम् । संभारयजुषां वाचनं कृत्वा शणकुलायेन मुञ्जकुलायेन वोखां प्रच्छाधान्यमग्निं करोति (सौ ०११।३।३) ॥ १॥ ! . .

येन देवा ज्योतिषोर्ध्वा उदायन्निति प्रादेशमात्रैः काष्ठैरुख्यमुपसमिन्धे ।। २ ।।

येन देवा इति प्रादेशमात्रैः काठेख्येन्धनं, यजमानेनैव प्रकृतत्वात् । अध्वर्युरिति भाष्यकृत् ॥ २ ॥ १ अध्वर्युणैवेति वपुस्तकान्तरे पाठान्तरम् ।