पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२. पटलः ] महादेषशास्त्रिसंकलितश्योगचन्द्रिकाव्याख्यासमेतम् । २९

अक्रन्ददग्निरित्युख्यमभिमन्त्रयते ।। ३३ ।।

अक्रन्ददित्येतयर्चा तमग्निमभिमन्त्रयते ॥ ३३ ।।

अग्नेऽभ्यावर्तिन्निति चतसृभिः प्रदक्षिणमावर्तते ।। ३४ ।।

विश्वतस्परीत्यन्तः । चतसृभिः प्रदक्षिणमावर्तते सहाऽग्निनेति शेषः । आवृत्तौ प्रादक्षिण्यं विधत्ते- दक्षिणा पर्यावर्तते । (तै० सं० ५ । २ । १ ) इति । दक्षिणा प्रादक्षिण्येन, दक्षिणभागमवस्थाप्य वामभागस्य पारभ्रमणं प्रादक्षिण्यम् । पुरुषस्य दाक्षभागे सामर्थ्यातिशयसद्भावात्तदेवानुसृत्याऽऽयत्तिः कृता भवति ॥ ३४ ॥

आ त्वाऽहार्षमित्याहृत्योपतिष्ठते यं कामयेत राष्ट्रꣳस्यादिति तं मनसा ध्यायेद्विशस्त्वा सर्वा वाञ्छन्त्विति ।। ३५ ।।

अस्य मन्त्रस्य प्रथमपादे वढेराहरणं प्रसिद्धमेव प्रतीयत इति दर्शयतिआ त्वाऽहार्षमित्याहाऽऽह्येवर हरति (तै० सं० ५। २ । १) इति । द्वितीयपादेऽन्वयव्यतिरेकाम्यां प्रतिष्ठा सिध्यत्यिाह- ध्रुवस्तिष्ठाविचाचलिरत्याह प्रतिष्ठित्य। (ते० सं० ५।२।१ ) इति । तृतीयपादे प्रजासमृद्धि चतुर्थपादे राज्यस्थैर्य च क्रमेण दर्शयति- विशस्त्वा सर्वा वाञ्छन्त्वित्याह विशैवैन समर्धयत्यस्मिन्राष्ट्रमधि 'श्रयेत्याह राष्ट्रमेवास्मिन्ध्रुवमकः ' ( तै० सं० ५।२।१) इति । विशा प्रजया । एनं यजमानम् । अस्मिन्यजमाने | अक: करोति । चतुर्थपादपाठ काले यजमानविषयं काम्यं मनसा ध्यानं विधत्ते–'यं कामयेत राष्ट्र५ स्यादिति तं मनसा ध्यायेद्राष्ट्रमेव भवति ' ( तै० सं०५।२ । १ ) इति । यं यजमानमुद्दिश्य राज्यमस्त्विति कामयेताध्वर्युस्तं चतुर्थपादोच्चारणकाले ध्यायेत् । ___ केचित्तु व्याचक्षते- तूष्णीमात्याऽऽसन्दीसमीपम् , आ त्वाऽहार्षमित्युपतिष्ठते । अग्रे बृहनुषसामूो अस्थादिति च । भाष्ये तु व्याचष्टे--आहरणार्थः पूर्व आ त्वाऽ. हार्षमिति । द्वितायनानेरुपस्थानम् । तूष्णीमाहृत्य द्वाभ्यामुपस्थानमित्येवं वैखा. नससूत्रनिबन्धनात् । यं कामयेत राष्ट्राधिपतिः स्यादिति तस्य ध्यानम् । इद राष्ट्रमधिश्रय देवदत्त, इति ॥ ३५ ॥

उदुत्तममिति शिक्यपाशमुन्मुञ्चते ।। ३६ ।।

शिक्यपाशमवनयति ग्रीवायाः ॥ ३६ ॥

अग्रे बृहन्नुषसामूर्ध्वो अस्थादित्युन्मुच्योपतिष्ठते ।। ३७ ।।

गतार्थः ॥ ३७॥ १ ख. पाशान्मु।