पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[११ मों- सत्याषाढावरचितं श्रौतसूत्रम्-

पतिर्विश्वकर्मा युनक्त्विति मौञ्जे शिक्ये षडुद्यामे हादशोद्यामे वोखामवदधाति ।। २५ ।।

मौजे शिक्ये मुञ्जकृते पडद्यामः शिक्यपादः, ते यस्य षट् द्वादश वा तनोखा निदधाति । न यथा दह्यते शिक्यं तथोपायं कुर्यात् ॥ २५ ॥

अग्ने युक्ष्वा हि ये तवेति वैताभ्यामेकविꣳतिनिर्बाधो रुक्यः सूत्रोतस्तमन्तर्वेद्यासीनो दृशानो रुक्म इति बहिष्ठनिर्बाधं यजमानो विपर्यस्य प्रति मुञ्चतेऽधस्तान्निर्बाधꣳ सादयति ।।२६ ।।

सुवर्णफलके निम्नोन्नतभावमापद्य स्पर्शकारिणं पुरुष निःशेषेण बाधन्त इति निर्वाधाः स्फोटकसदृशा अवयवविशेषाः । ते चैकविंशतिसंख्याका यस्मिन्रुक्मे सोऽयमेकविंश- तिनिधिः ! तादृशं रुक्मं कुर्यात् । सूत्र उतः सूत्रोतः सूत्रे लाङ्गितः । दृशानो रुक्म इत्यनेन मन्त्रेणोपरिष्टाद्यजमानोऽन्तःस्फोटकं लङ्गयित्वा रुक्मं पश्चासहिः स्फोटकान्कुरुते ॥ २६ ॥

नक्तोषासेति कृष्णाजिनं प्रतिमुञ्चते ।। २७ ।।

नक्तोषासेति कृष्णाजिनमुपरि करोति बाहोः ॥ २७ ॥

विश्वा रूपाणीति शिक्यपाशान् ।। २८ ।।

प्रतिमुञ्चत इत्यनुवर्तते । शिक्यस्य यः पाशस्तं ग्रीवायां प्रतिमुञ्चते ।। २८ ।।

अपि वा शिक्यं प्रतिमुच्य कृष्णाजिनं प्रतिमुञ्चते ।। २९ ।।

अपि वा यथासमाम्नायपाठेन पठितस्तथेत्यर्थः ॥ २९ ॥

सुपर्णोऽसि गरुत्मानित्युख्यमवेक्षते ।। ११.३.३० ।।

अचलितस्यैवावेक्षणमुख्यम्य ॥ ३० ॥

सुपर्णोऽसि गरुत्मान्दिवं गच्छेत्युद्यच्छते ।। ३१ ।।

स्पष्टोऽर्थः ॥ ३१ ॥

ऊर्ध्वं नाभेर्धारयमाणो विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमान् (प्राचः) क्रामति ।। ३२ ।।

नाभेरुपारंधारयमाण उख्यं, विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमान्प्राची दिश क्रामति प्राङ्मुखश्च । यं द्विष्म इत्येवमन्ता विष्णुक्रममन्त्राः ॥ ३२ ॥