पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२४ सत्यापाढविरचितं श्रौतसूत्रम्- - [११ प्रश्नैसामिधेन्यः । अग्निरमे प्रथमो देवतानाम् , अग्निश्च विष्णो तम उत्तम मह इत्यग्नाविष्ण्वोर्याज्यानुवाक्ये । अदितिर्न उरुष्यतु महीम षु मातरम् , इत्यदितः । वैश्वानरो न ऊत्या पृष्टो दिवि, इति वैश्वानरस्य । त्रिविरपि दीक्षणीया आज्येडान्ता । त्रिधाकरणमादित्यवैश्वानरयोरिति न्यायः । भाष्यकारस्तु-आज्येडान्ते ब्रह्मभागं प्राश्योपस्थानं कृत्वा ब्रह्मा निष्कामति, इति व्याचष्टे । प्राग्वंशकरणं वपनं चोत्तरेण बहिरित्येवमादि प्राग्दीक्षाहुतिभ्यः | आवनीयमुपोपविशति, इत्येवमन्तं कृत्वा दीक्षाहुतयः । वैकल्पिका विधयः सर्वे लभ्यन्त इहापि । अध्वरो ज्योतिष्टोमः । अध्वरे मवा आध्वरिक्यस्ताः पञ्च-आकूत्यै प्रयुजेऽग्नये स्वाहेति वेण चतस्रः खुचा पञ्चमी । आकृतिमग्निमिति षडाग्निकीर्दीक्षाहुतीर्बुवा अत एव सह पूर्णाहुत्या हुत्वाऽभिधारणम् । भाष्ये तु मन्त्रे णाऽऽप्यायनमिति । विश्वेदेवस्य नेतुरिति सप्तमी पूर्णाहुतिः । सप्तमीतिवचनाद्यजमानोऽनुमन्त्रयते वातं प्राणमिति । ननु-अग्नौ प्रकृतितो दीक्षाहुतयः षट्प्राप्तास्तासां च षण्मन्त्राः प्रकृतित एव प्राधा:-आकृत्यै प्रयुजेऽग्नये स्वाहा (ले० सं० (१-२-२) इत्यादयः । अग्नावपरे षण्मन्त्राः-आकृतिमग्निं प्रयुजर स्वाहा' इत्यादयः । ते च दीक्षार्थतया विनियुक्ताः । षड्भिदक्षियति ( तै० सं० ५-३-१ ) इति । दीक्षाहुतीनां चाभ्यासः श्रूयते- द्वादश जुहोति ' इति । तत्र संशयः-किं वैकृतैर्मन्त्रैः प्राकृता बाध्यन्ते समुञ्चीयन्ते वेति । तत्र प्रत्यक्षपाठेन प्रत्यक्षवचनेन च । वैकृताः प्राकृतान्मन्त्रान्बाधेरनेककार्यतः ॥ यद्यपि · द्वादश जुहोति ' इति वचनाद्धोमानामभ्यासस्तथाऽपि वैकृतानामेव प्रत्यक्षवचनविहितानां चोदकेन प्राप्तप्राकृतमन्त्रबाधेन होमानत्वात्तैरेवाभ्यस्तैादशापि होतल्या इति प्राप्ठे ब्रूमः न प्रत्यक्षेण वाक्येन होमाथै वैकृताः श्रुताः। .....: : दीक्षार्थताबलात्तेषां होमाङ्गत्वं प्रकल्प्यते ॥ ... सकृत्प्रयोगमात्राच्च तादर्थ्यमुपपद्यते । . : . वैकृतैः प्राकृतास्तस्मात्समुच्चेया न बाधनम् ॥ । षड्भिक्षयति ' इति दीक्षार्थता श्रुता । सा च स्वाहाकारलिङ्गानां होमद्वारेणेति दीक्षार्थत्वसिद्धये होमागता कल्प्यते । सकृत्प्रयुक्तैरेव च षट्स होमेषु दीक्षार्थतासिद्धे नौम्यासे प्राकृतबाधे वा प्रमाणमस्ति तेनाभ्यासवशेन होमानी द्वादशत्वान्मन्त्राणामपि • प्राकृसवैष्कृतानों समुच्चयः ॥ १ ॥ २ ॥