पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

३ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । २६ इति न्यायः । अथ वा मांसाशनमुपरिशय्यो च कुर्यात् । स्त्रियं तु नोपगच्छेत् । एवं संवत्सरमिति वाजसनेयकम् । इति वायव्यपशुः ॥ ६ ॥ .... इति हिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रसंकलितायां प्रयोगचन्द्रिकाया. . .मेकादशप्रश्ने द्वितीयः पटलः ।

11.3 अथैकादशप्रश्ने तृतीयः पटलः ।

यत्प्राग्दीक्षणीयायास्तत्कृत्वा द्विहविषं त्रिहविषं वा दीक्षणीयामिष्टिं निर्वपति । आग्नावैष्णवमेकादशकपालमाग्नावैष्णवं वा घृते चरुमादित्यं च घृते चरुं वैश्वानरं द्वादशकपालं पुरस्तात्तृतीयमसंवत्सरभृतः ।। १ ।। दीक्षाहुतिकाल आकूत्यै प्रयुजेऽग्नये स्वाहेति पञ्चाऽऽध्वरिकीर्हुत्वाऽऽकूतिमग्निमिति षडाग्निकीर्जुहोति । विश्वेदेवस्य नेतुरिति सप्तमीम् ।। २ ।।

यत्पूर्व दक्षिणीयायाः कर्म तत्कृत्वा द्रव्यनिर्देशः संभारयजूंषि अग्निपरित्यागः सोमपरिवे(पे)षणं सप्तहोता परित्यज्याभिं क्रत्वर्थमनिं प्रणीय त्रिविष्कं आग्नापैष्णव आदित्यस्तृतीयो वैश्वानर इति । असंवत्सरभृतो यजमानस्याऽऽग्नावैष्णवादपि पुरस्ताद्वैश्वानरः । आदित्यस्य पुरस्तादिति भाष्यकारोक्तिस्तस्याऽऽनन्तर्यात् । अग्निस्तु वैश्वानरगुणकः, वाक्यशेषान्मन्त्रलिङ्गाच्च । आग्नावैष्णवं धृते चरुमिति घृतमग्नेः- घृतमस्य योनिघृते श्रितः' इत्यादिमन्त्रवर्णात् । तण्डुलास्तु विष्णोः प्रियाः । येऽणिष्ठास्तान् विष्णवे शिपिविष्टाय' इति श्रुतेः । तस्मादुभयप्रियत्वाद्धृतयुक्तश्वरुः कार्यः । अदितिर्देवता यस्य चरोः सोऽयमादित्यः । आग्नावैष्णवं हविः प्रथमं कृत्वा द्वितीयहविष्ट्वेनायमादित्यश्वरुः कार्यः । उख्यस्याग्नेः संवत्सरधारणं ब्राह्मणे विदधाति-यो वै संवत्सरमुख्यमभुत्वाऽग्नि चिनुते ( तै० सं०५-५-१) इति । तेन च धारणेन विनाऽग्निचयन परिपक्वगर्भपातेन समानम् । अतो यजमानो म्रियेत । तस्मात्संवत्सरं धारयितुमशक्तः पुमान्संवत्सरात्मागेच तिस्रः षड्डा दश वा रात्रीदक्षिाश्चिकीर्षुर्वैश्वानरं द्वादशकपालं निर्वपेत् , तस्य च वैश्वानरस्याग्नेः संवत्सररूपत्वात् । यथा लोके संवत्सरेण पूर्णो गर्भ: काले सुखेन जायत एवमप्यनयेष्ट्या संवत्सरं प्राप्य काले प्राप्ते चितवान्भवति । ततो न म्रियते । विहितानां हावयां त्रित्वं प्रशंसति--वीण्येतानि हवींषि भवन्ति । (तै० सं० ५-५- ३) इति । अत्र यानुषहौत्रसत्वे याजुषोक्तरीत्या सप्तदश .