पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२२ . सत्यापादविरचितं श्रौतसूत्रम्.. [११ प्रश्ने....... .

वायुमती श्वेतवती वपाया याज्यानुवाक्ये भवतः ।। १७ ।।

इदं याजुषं हौत्रम् । पीवोऽन्ना५ रयि वृध इत्यूची वायुमत्यो श्वेतवत्यौ च, ते वायवे समनस इति वायुशब्दसद्भावाच्छ्वेतः सिषक्तीति श्वेतशब्दसद्धावाच्च । वायुर्नियुत्वान्ययोर्देवता ते वायुमती नियुत्वती दैवतस्य याज्यानुवाक्ये भवत इत्यर्थः ॥१७॥ ...

वायुमती नियुत्वती पशोर्दैवतस्य वैश्वानरः प्राजा पत्यो वा द्वादशकपालः पुरोडाशो भवति ।। १८।। सिद्धꣳ संतिष्ठते ।। १९ ।।

गतार्थः । अत्र, वायव्यः कार्याः ३ प्राजापत्याः ३ (ते. सं. ५।५।१) इति विचारित ब्राह्मणे । वायव्यः कर्तव्यः पशुः प्राजापत्यः पुरोडाश इति वैखानसः । यस्तु प्राजापत्यो द्वादशकपालः पुरोडाशः क्रियते तेन शाखान्तरविहिता देवता । वैश्वानरस्त्वग्निगुणकेनाभिहितम्(तः) । तस्याग्नये वैश्वानराय द्वादशकपालं पशुपुरोडाशं निर्वपति ( आप० श्री० १६ । २ । १२)। इति अन्यदेवता अपि पशुपुरोडाशदेवताः पशुदेवतां वर्धयन्ति । तस्मादवीवृधन्त पुरोडाशेनेत्यस्या निवृत्तिः । यथा त्वस्माकं पाठः-ॐ वीवृधन्त ग्रहेरिति । तेन ज्ञायते ग्रहास्त[एवं] देवता अतो ग्रहदेवता अभिवर्धयन्ति पशुदेवताः । अत एव पठितम् - 'इतरथा तु अवीवृधन्त ग्रहः पुरोडाशैः' इत्येवमवक्ष्यच्छृतिः । यः कश्चानानावानगुणके ऋतौ पशुरालभ्यते । अग्नीषोमीयसवनीयानूबन्ध्यासु वैश्वानर एवास्य द्वादशकपालः पुरोडाशः क्रियते। अग्निर्दे(गुणकदे)वता वैश्वानर इहापि । भाष्यकारस्तु-वचनादेवाग्निर्वैश्वानरोऽन्यत्र वैश्वानर एवेति व्याचष्टे । सिद्धं कृत्स्नं संतिष्ठते समाप्यते ॥ १८ ॥ १९ ॥

मृदा प्रलिप्य वायव्यस्य शिरो निदधाति ।। (ख०६) ।। ११.२.२० ।।

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने द्वितीयः पटलः ।। २ ।।

तस्य शिरश्लित्त्वाऽभिमर्शने कृते मृदा च प्रलिप्य वाव्ययशिरः स्थाप्यते, तेनेष्ट्वा वायव्येन पशुना, पञ्च पशुभिर्वा, समानविधानत्वात् । संवत्सरं माँसपरिवननं स्त्रियाः परिगमनवर्जमुपरिशयनवर्जन च । यदाऽप्यक्सिंवत्सरादिज्या तदाऽपि संवत्सरं वायव्यव्रतानि बाध्यन्त इति भाष्यकृत् । साग्निकधर्मवतैश्च सर्वेषां समुच्चय . १.ग. मुच्छ्य । ...........