पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्- [.११.प्रभे-

यद्यमस्येत्यामयाविनः कुर्यात् ।। ३ ।। बृहस्पते सवितर्बोधयैनमित्यनामयाविनः ।। ४ ।। राये अग्ने महे त्वा दानाय समिधीमहि । ईडिष्वा हि मही(हे)वृषन्द्यावा होत्राय पृथिवीम् । उद्वयं तमसस्परीति ज्योतिष्मत्या परिदधाति ।। ५ ।।

दानाय समिधीमहि । इंडिया हि मही(हे)उपन्यावा होत्राय पृथिवीम् । उद्वयं तमसस्परीति ज्योतिष्मत्या परिदधाति ॥ ५॥ एकविंशतिं चतुर्विशति वा सामिधेनीः पराचीरितिवचनात्प्रथमोत्तमयोः प्रयो बाजा ( ३-५-२) इत्येकादशोक्त्वा, आजुहोतेत्येकादशिनीतरेषां गोत्राणां, त्वं वरुण इति वसिष्ठराजन्यानामेकादशिनी । समास्त्वाऽग्ने (ते० सं० ४ १-७) इत्यष्टावुक्त्वा · बृहस्पते सवितर्बोधयनमित्यनामयाविनो नवमी । अमुत्र भूयादित्यामयाविनो नवमी (वा) । राये अग्न इति विंशी, उद्वयं तमसस्परीत्येकविंशी परिधानीया । यदा चतुर्विंशतिस्तदैकादश प्राकृतरिक्त्वाऽऽग्निकीश्च नव पूर्ववदुक्त्वा- 'उपेमसृक्षि' इति तिस्रोऽप्सुमतीरुक्त्वा-उद्वयं तमसस्परीति ज्योतिष्मती परिधानीया । - यत्तु-भाष्यकारेणोक्तम्-एकादश प्राकृतीः समास्त्वाऽग्न इति दशाऽऽग्निकीः । चतुर्वि- - शतिपक्षे तु तत्र शाखान्तरोक्ता उपेममृति वाजयुरित्याद्यास्तिस्रो धाय्याः संक्षिप्य चतुर्विशतिसंख्या पूरणीया, इति । पराचीरनावृताः ॥ २ ।। ३ ।। ४ ॥ ५॥

हिरण्यगर्भः समवर्तताग्र इति स्रुच्यमाघारयति ।। ६ ।।

आधारस्य प्रत्याम्नायो हिरण्यगर्भ इति ॥ ६ ॥

ऊर्ध्वा अस्य समिधो भवन्तीति प्रयाजानामाप्रियो भवन्ति ।। ७ ।।

यद्यप्येकादशैव प्रयाजास्तथाऽपि द्वितीयतृतीययोर्मन्त्रयोः पुरुषभेदेन व्यवस्थितत्वा. मन्त्राणां द्वादशसंख्या न विरुध्यते । सा च व्यवस्था सूत्रकारेण दर्शिता- नराशसो द्वितीयः प्रयानो वसिष्ठशुनकानां तनूनपादितरेषां गोत्राणाम् ' इति ॥ ७ ॥

आग्नेयीस्त्रिष्टुभ आग्नेयानां याज्यानुवाक्या भवन्ति ।। ८ ।।

आग्नेयीत्रिष्टुभः संभरणे सीद होतरिति तिस्रो भुवो यज्ञस्येति च तिस्रो याज्ञ- सेन्याश्चित्याः ॥ ८॥

यः प्राणत इति प्राजापत्यस्य ।। ९ ।।

यः पशुः प्राजापत्यस्तस्यैते याज्यानुवाक्ये इत्यर्थः । तत्र वपायां वे ऋचौ पुरो- डाशे द्वे ऋचौ हविषि द्वे ऋचाविति षडचो याज्यानुवाक्याः प्रजापतये छागस्य वपाया इति । अग्निभ्यः कामायाश्वस्यर्षभस्य वृष्णेस्तस्य च वपानां मेदसामिति प्रैषः ।