पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० - १ पटलः] महादेवशालिसकलितमयोगचन्द्रिकान्याख्यासमेतम् । पुनः परिदानं रक्षार्थम् । मित्रस्योखायाः । अत्र वाग्यतेनाषाढोद्वास्यते । तूष्णीमषाढा- मुद्रास्य (आप० श्री. १६ । २ । २३) इत्यापस्तम्बसूत्रात् । वसवस्त्वेति चार्मि- रनक्षीरेण सेचनमुष्णतापनयनार्थम् । अनेन दृढा च भवत्युखा-नक्षीरेण सिक्ता । लोकेऽनक्षीरस्य सर्वव्याधिपरिहारहेतुत्वाद्वेदेऽपि-आग्नेयी वा एषा । यदना' इत्युक्तः त्वात्परमत्वम् । सेचनसाधनं विधत्ते--अनक्षीरेणाऽऽच्छृणत्ति परमं वा (तै० सं० ५।१।७) इति ॥ १६ ॥

सप्तैकविꣳशतिं चतुर्विँशतिं वा माषानादाय पुरुषशिरोऽच्छैति राजन्यस्य वैश्यस्य वेषुहतस्याशनिहतस्य वा । पुꣳसो माषानुपन्युप्य ।। ६७ ।।

सप्तैकविंशतिं वा गृहीत्वा माषान्पुरुषशिरोभिमुखो गच्छति क्षत्रियस्य वा वैश्यस्य या । इषुणा यो विद्धो म्रियते विद्युता वा हतः । अथ वा- -एकविंशतिसंख्याकानि माषबीजानि स्वीकृत्य तैर्युक्तः पुरुषशीर्ष प्राप्तुं गच्छेत् । तथा च ब्राह्मणेनोक्तम् -'एक. विशत्या मापैः पुरुषशीर्षमच्छति (तै० सं० ५। १ । ८) इति । माषानुपन्यु- प्यास्य शिरसि मेध्यं कृत्वा हरति ( तै० सं० ५ । १।८) इति लिङ्गात् ।।६७॥

अयं योऽसि यस्य त इदꣳ शिर इति पुरुषशिरः प्रच्छिद्यैतेन त्वमत्र शीर्षण्वानेधीति सप्तधा वितृण्णां वल्मीकवपां शिरसः स्थाने प्रतिनिदधाति ।। ६८ ।।

अयं योऽसीति च्छेदनं पुरुषशिरसः। एतेन त्वमत्र शीर्षण्वानेधीति सप्तच्छिद्रां । पल्मीकवपां शिरःस्थाने निदधाति ॥१८॥

योऽस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी । यमं भङ्ग्यश्रवो यो राजाऽनपरोध्यः । येनाऽऽपो नद्यो धन्वानि येन द्यौः पृथिवी दृढा । हिरण्यकक्ष्यान्सुधुराहिरण्याक्षानयः शफान् । अश्वाननश्यतो दानं यमो राजाऽभितिष्ठतीति तिसृभिर्यमगाथाभिः परिगायति ।। ६९ ।।

यमो गीयते यास्वृक्षु ता यमगाथाः । योऽस्य कौष्ठ्येत्याचा आरण्यककाण्डे पितृमेध- प्रपाठके समानाताः । अत्रापेक्षिताना यमगाथानां संख्यां विधत्ते-तिसृभिः परिगायति (तै० सं० ५ । । । ८) इति । शिरः प्रदक्षिणं कुर्वन् । यमाथाभिः परिगायति वदतीत्यर्थः ॥ १९ ॥ ६