पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

१४ सत्यापाठविरचितं श्रौतसूत्रम् [११ प्रश्ने। गतार्थः ॥ ४॥ .. ...

यज्ञस्य पदे स्थ इति कृष्णाजिनं पुष्करपर्णं चाभिमन्त्रयते ।।४६।।

अभिट्टशति मृदिवाङ्गुष्ठाभ्यां निगृह्णातीत्यापस्तम्बः ॥ ५६ ॥ .

रुद्राः संभृत्य पृथिवीमिति चतसृभिः पिण्डान्प्रयच्छति ।। ४७ ।।

गर्भ आ इत्यन्तः । करें प्रयच्छति (आप० श्रौ० १६-२४) इत्यापस्तम्बः ॥४७॥

वसवस्त्वा कृण्वन्त्विति चतुर्भिश्छदोभिर्महिष्युखां करोति बहुभार्यस्य ।। ४८ ।।

यभमानायेत्यन्तः । महिप्यै प्रयच्छति यजमानो बहुभार्यः ॥ ४८ ॥

अध्वर्युरेकभार्यस्य ॥ ४९॥

अध्वर्युरे(र्यव ए) कभार्यः प्रयच्छति यजमानः ॥ ४९॥ . . . .. .......

एतैरेव यजुर्भिर्यजमानः क्रियमाणामभिमन्त्रयते ।। ११.१.५० ।।

वसवस्त्वेत्यादिभिर्यजुभिर्यजमानोऽनुमन्यते ।। ६० ॥

त्र्युद्धिं पञ्चोद्धिं वा करोति।। ५१ ।।

उद्धिर्वमवस्थितोऽयययविशेषः । यथा भाण्डस्योपर्यन्यद्धार्ड तस्याप्युपरि पुनरम्यन्यद्भाण्डमिति कक्ष्यावयं तथेयमेकैवोखा कक्ष्यात्रययुक्ता. वा कार्या । एवं पञ्चोद्धिं करोत्यिर्थः ॥ ११ ॥ .... ...

प्रादेशमात्रीमूर्ध्वप्रमाणेनारत्निमात्रीं तिर्यक्प्रमाणेन व्यायाममात्रीꣳ समन्तपरिमाणेनापरिमि तां वा कुर्वꣳश्चतस्रोऽश्रीः प्रतिदिशमुन्नयति ।। ५२ ।।

प्रादेशप्रमाणा भवत्यूर्ध्वप्रमाणेनारस्निमात्री तिर्यममाणेन व्यायाममात्री समन्ततः चतुररनिर्व्यायामः । अपरिमिता व्यायामात्पश्चप्रादेशाभ्यन्तरिषुमात्री वा । यथाऽऽ. हाऽऽपस्तम्ब:-'पञ्चप्रादेशामिषुमात्री वा यदि पञ्च पशवो भवन्तीति वाजसनयेकम् । (१६-२-८) इति । पञ्चपशुषु वानसनेयिमतादितरेऽपि विधयो लभ्यन्ते । पञ्चपशुष्वपि शाखान्तरस्थां कुर्वन्नुखां चतस्रोऽस्या अश्रीः करोति मृदा । न त्रिको णाम् ॥ १२ ॥ । । १ क- तिसृभिः । .. .