पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

O १ पटलः ] महादेवशालिसकलितप्रयोगचन्द्रिकाथ्याख्यासमेतम् । व्याख्यातम् । यजमानशत्रुणाऽस्य संगमो भवति तमभिमन्यते तेन मन्त्रेण । पदा न संगमस्तदा मन्त्रमुक्त्या द्वितीयया निर्देशो देवदत्तमिति ॥ ४ ॥

उत्तरेण विहारं परिश्रित ओषधयः प्रतिगृह्णीताग्निमेतु मिति द्वाभ्यामोषधीषु पुष्पवतीषु फलवतीषूपावहरति ।। ४१ ।।

सधस्थमाऽसददित्यन्तः । विहारस्योत्तरतोऽदूरे परिश्रिते वेष्टिते कटैरन्या प्रदेशे । ओषधीषु ब्रीहियवादिषु माम्यारण्यासू पुष्पाणि यासु विद्यन्ते फलानि च तासूपावहरति स्थापयति । द्वाभ्यामुपावहरति, औषधयः प्रतिगृह्णीताक्षिमेतम् * ( तै० सं०५-१-६) इति । एवमन्तो विहारः पश्चालौकिक: संपद्यते प्रयोजनाभावाद्विहारस्येति न्यायः ॥ ४१ ॥

वि पाजसेति विस्रꣳसयति ।। ४२ ।।

प्रणीतावित्यन्तः । प्रतिमुश्चति दाम्ना बद्धम् ॥ ४२ ॥

आपो हि ष्ठा मयो भुव इति तिसृभिरप उपसृजाति ॥ ४३ ॥

च न इत्यन्तः । ' तिसृभिरुपसृजति । ( तै० सं० ५-१-६ ) इत्यत्र ब्राह्म- णम् ॥४३॥

मित्रः सꣳसृज्य पृथिवीमिति द्वाभ्यां सꣳसर्जनीयैः सꣳसृजति ।। (ख०३)।। अर्मकपालैर्वेण्वङ्गारैर्व्रीहितुषैः पलाशकषायैश्च शर्कराभिः पिष्टाभिः कृष्णाजिनलोमभिरजलोमभिर्यच्चान्यद्दृढार्थमुपार्धं मन्यते ।। ४४ ।।

छन्दसाऽङ्गिरस्वदित्यन्तः । संसृजति मृदम् । द्वाभ्यां ससृजति संसर्जनीयैः संभारे- दृढीकरणैः संसृजति, अर्मो ग्रामाभावस्थानम् । तंत्र यानि कपालानि तानि शुचिभूतैः पिष्टैः संसृनंति वेण्वङ्गारेश्चूर्णीकृतीहीणां च तुषैः पलाशकषायेण चूर्णेन शर्करामिः पिष्टाभिः कृष्णाजिनलोमभिरालोमभिश्च संसृजति मृदम् । यच्चान्यवन्यमुपगंत मृद- मुपार्धं यदृढाथै यत्समर्थ तदर्थमुपगतं भवति । यज्ञियस्य यच्चान्यत्किचिच्चूर्णादिक सर्वैः संसृज्य मुदमिति । अत्र दायहेतुभिः कपालादिभिः संसर्गम्' अर्मपालैः समृनति, शर्कराभिः ससृजति, अनलोमैः ससृजति, कृष्णाजिनस्य लोममिः १५. सूजति' (तै० सं०५-१-६) इति ब्राह्मणव्याख्यातत्वाच ॥ ४४ ॥

मखस्य शिरोऽसीति पिण्डं करोति ॥ ४५ ॥

o