पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १२ सत्यापादविरचितं श्रौतसूत्रम्-.. [११ प्रश्ने-

जनिष्वा हि जेन्य इति संभृतामभिमन्त्रयते ३२ ।।

संभृताया मृदोऽभिमर्शनं मृत्खनमन्यया मृदा पूर्यते यथा न लक्ष्यते तत्रा- वट इति ॥ ३२ ॥

सं ते वायुर्मातरिश्वा दधात्विति मृत्खनेऽप उपसृजति ।।३३ ।।

मृत्खनप्रदेशेऽपोऽवनयेत् । तुभ्यमिति मन्त्रान्तः ॥ १३ ॥

संलोभ्य मृत्खनꣳ समुद्गृह्य कृष्णाजिनस्यान्तान्सुजातो ज्योतिषा सहेति मौञ्जेनार्कमयेण वा त्रिवृता दाम्नोपनह्यति ।। ३४ ।।

संलोभनं विमोहनम् । कृष्णाजिनस्यान्तान्समुद्यम्य सर्वानुद्यम्य सुजात इति · क्षौमेण मौजेनार्कमयेण वा' (आप १०ी० १६ । १।२ । २५ ) इत्यापस्तम्बः । क्षोमेणा- हतवाससा दाना मौ न मुञ्जकृतेन, अर्कमयेण देवरूपिकाकृतेन दाम्ना बध्नाति ॥३४॥

उदु तिष्ठ स्वध्वरेति द्वाभ्यामुत्तिष्ठति ॥ ३५ ॥

विह्वयामह इत्यन्तः । सवितृलिङ्गकाभ्यामेताभ्यामुग्भ्यां बद्धमग्निं गृहीत्वोत्तिष्ठेत् । द्वितीयमन्त्रे-'देवो न सविता ' इत्युक्तत्वादेते सावित्र्यौ एताभ्यामुत्तिष्ठति । तथा चाऽऽहाऽऽपस्तम्बः-सावित्रीभ्यामुत्तिष्ठति, इति ॥ ३५ ॥

सजातो गर्भो असि रोदस्योरिति हरति ।। ३६ ।।

कनिक्रदगा इत्यन्तः । गर्दभसमीपं हरति ॥ ३६ ॥

स्थिरो भव वीड्वङ्ग इति गर्दभस्य पृष्ठ आसादयति ।। ३७ ।।

पुरीषवाहनः, इत्यन्तः । गर्दभस्य पृष्ठे स्थापयति मृदम् ॥ ३७ ॥

शिवो भव प्रजाभ्य इत्यासन्नमभिमन्त्रयते ॥ ३८ ॥

वनस्पतीनित्यन्तः । स्थापितमभिमन्त्रयते ॥ ३८ ॥

प्रैतु वाजी कनिक्रदरिति तिसृभिरत्वरमाणा अश्वप्रथमाः प्रत्यायन्ति ।। ३९ ।।

सत्यमित्यन्तः। अत्वरमाणों यथा भवन्ति तथाऽश्वप्रथमा यजमानगृहं प्रत्यांगच्छन्ति। न तु गर्दभप्रथाः ॥ ३९ ॥

अग्निं पुरीष्यमङ्गिरस्वद्भराम इति येन द्वेष्येण संगच्छेत तमभिमन्त्रयेतापश्यन्नि र्दिशति ।। ११.१.४० ।।