पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटल: ] महादेवशाखिसकॉलतपयोगचन्द्रिकाव्याख्यासमेतम् । भात्पुरतो गमनं विशदयत्यापस्तम्ब:- यदि कामयेत पापवस्यसः स्यादिति गर्द- भप्रथमा गच्छेयुः' ( आप० श्री० १६-१-१२ ) इति । गर्दभोऽश्वात्पापीयानिति प्रसिद्धम् । अत उभयोः समानं गमनं मा भूदित्यश्वं पुरतो नयेयुः । तथाऽश्वं पूर्व नयन्ति, इति हि ब्राह्मणम् ।। १४ ॥

अग्निं पुरीष्यमङिरस्वदच्छेहीति येन द्वेष्येण संगच्छेत तमभिमन्त्रयेतापश्यन्निर्दिशति ।। १५ ।।

मृत्खनं प्रति गच्छत्सु मार्गमध्ये यदि केनापि द्वेष्येण संगच्छेत तदानीमिम मन्त्रं पठेत् । यदि द्वेष्यं न पश्यति तदाऽपि तं मनसा निर्दिश्य पठेत् ॥ १५ ॥

अग्निं पुरीष्यमङ्गिरस्वदच्छेम इति वा ।। १६ । ।

वाशब्दः शाखान्तरमतप्रदर्शनार्थः ॥ १६ ॥

सूर्यस्योदयनं प्रति वल्मीकवपामुपतिष्ठतेऽग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इति ।। १७ ।।

वल्मीकस्य योऽवयव उन्नतत्वेनाभिवृद्धः सेयं वपा, तथाविधासु वपासु मध्ये या वपा सूर्योदयस्याभिमुखा तस्या अग्रं किंचिदुद्धृत्य तां वपामनेन मन्त्रेणोपतिष्ठते ॥१७॥

अत्रैके समामनन्ति ( अग्निं पुरीष्यमङ्गिरस्वद्भरामः) ।। १८ ।।

यद्गमनकाले तद्वदागमनकालेऽपि । तत्र भरिष्याम इति पाठः । अत्र तु भराम इति विशेषः । यद्यप्यागमनस्य नायं कालः, तथाऽपि प्रसङ्गाद्बुद्धिस्थमन्त्रोऽयमान्ना- तस्तं चोपरिष्टादुत्कर्षेत् । अमुं विधिमेके शाखिनः पठन्ति ।। १८ ॥

अन्वग्निरुषसामग्रमख्यदिति वल्मीकवपायाः प्रक्रामति ।। १९ ।।

वुल्मीकयपायाः समीपं गच्छति ॥ १९ ।।

आगत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमिति द्वाभ्यां मृत्खनमश्वमाक्रमयति ।। ११.१.२० ।।

मुत्खने दक्षिणपूर्वण पादेनाऽऽक्रमयन्ति ॥ २० ॥

द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठꣳ संमार्ष्टि ।। २१ ।।

(इमं धनुचिइनान्तर्गतपाठ केचिन्न पठान्त।) १ क. रस्तदा । २ क. स्योदेतोस्तामुद्धत्योप । ३ ख. "म इति ।