पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[९१ प्रौ- सत्यापादविरचितं श्रौतसूत्रम्-

मरत्निमात्रीं बाहुमात्रीं व्याममात्रीमपरिमितां वा ।। ११ ।।५

देवस्य त्वेत्यारभ्य-आनुष्टुभेन त्या छन्दसाऽऽददेऽशिरस्वदित्येवमन्तैश्चतुर्भिमन्त्रैरनिं (खनित्रं) काष्ठकुहालं गृह्णाति खादिरी वैणवीं वा । कल्माषी कृष्णबिन्दुलाञ्छिता, सुषिरा अन्तश्छिद्रा, असुषिरा घना, क्ष्णु तेजन इत्यस्माद्धातोरुत्पन्नः क्ष्णुशब्दस्तीक्ष्णत्वमा- चष्टे। उभयोरप्रमूलयोस्तक्षिणाऽनिरुभयतःक्ष्णूस्तादृशी कार्या । अथवा पालाशी पर्णमयी, औ(उ)दुम्बरो जन्तुफलः, अर्क प्रसिद्धः, शमी घण्टा । एतेषामभावे यो वा यः कश्चन . यज्ञियवृक्षः फल्याहिस्तस्यानिः कार्येत्यर्थः भाव्यकारस्तु फलानि बहूनि गृह्णा- तीति फलपहिः । वनस्पतीनां मध्ये यः फलपहिरस्ति एषां फलनहीणामपि मध्ये स वेणुरतिशयेन फलप्रहिः । ब्रह्माद्यग्रवद्वेणूनां समाप्तिसंवत्सरे गोधूमसदृशैर्बहुभिवनिरुपेत. तत्वात् । तस्मादियमभिर्वेगवी कार्येति । चतुर्भिररनिभिस्तुल्यो व्यामः । एतावती कार्यो । नियतपरिमाणरहितत्वमपरिमितत्वं विधत्ते-अपरिमिता भवति (तै० सं० ५।१।१) इति ॥ ननु-ये तु संख्यायुक्ता मन्त्राः । चतुर्भिरभ्रिमादत्ते ' ( तै० सं०५।१।१) इत्येवमादयस्तेषामपि पूर्ववद्विकल्पः । संख्यावशात्तु समुच्चयः । चतुःसंख्या हि कर्माङ्ग- भूता नासति समुच्चये संपद्यते । तत्र पूर्वप्रयुक्तानां मन्त्राणां संस्कारद्वारेण कारणत्वं चरमस्य तु साक्षादिति संख्यावचनसामर्थ्यादध्यवसीयते । तस्मात्समुच्चयः ॥ ११ ॥

इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादाय प्रतूर्तं वाजिन्नाद्रवेत्यश्वमभिदधाति ।। १२ ।।

अश्वोऽभिधीयते बद्ध्वा धार्यते.यया रशनया सेयमश्वाभिधानी ॥ १२ ॥

तूष्णीं गर्दभस्याऽऽदाय युञ्जाथाꣳ रासभं युवमिति गर्दभम् ।। ।। १३ ।।

भरन्तमस्मयुमित्यन्तः । मन्त्रमन्तरेणैव गर्दभस्य रशनामादाय युञ्जाथामिति मन्त्रेण गर्दभमामिदध्यात् । अत्र निकृष्टकार्ये स्थापितस्तस्माल्लोकेऽपि गर्दभोऽश्वानिकृष्टतरः । रजकादय एव हि तमाद्रियन्ते न तु राजामात्यादयः ॥ १३ ॥

योगे योगे तवस्तरमिति तिसृभिरश्वप्रथमाः प्राञ्चो गच्छन्ति यत्र मृदं खनिष्यन्तो भवन्ति ।। १४ ।।

अच्छेहीत्यन्तः । गच्छन्तीति बहुवचननिर्देशादध्वर्युब्रह्मयजमानाः । अश्वप्रथमाः, यत्र यस्मिन्देशे दृदा मृत्तत्र गच्छन्त्यश्वः प्रथमस्ततो गर्दभस्तत इतरे । तत्राश्वस्य गर्द-