पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ 0 - १ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाच्याख्यासमेतम् । मुहूनुवयोस्तूष्णीं संमार्गः । दर्शपूर्णमासवत्समन्त्रक इति भाष्यकृत् । अनाप्य- ष्टगृहीतेन होमः शाखन्तरीयः । चतुर्गृहीतहोमस्त्वस्मच्छाखोक्तः, 'चतुर्ग्रहीनेन जुहोति' ( ० सं०५-१-१ ) इति विधिदर्शनात् । 'युञ्जानः प्रथमं मनः, इत्यारम्य-इमं नो देव सवितर्यज्ञम् ' (० सं० ४-१-१) इति यजुरष्टमाभियंजुरष्टमं यासा ताभिर्यजुरष्टमाभिरिभरेकामाहुतिमन्तवेदि गार्हपत्याहवनीययोमध्य स्थितो जुहोति. । सविता देवता ॥ ७ ॥ अत्रेदं चिन्तनीयम्-किमेकैकं मन्त्रमुच्चार्य जुहुयात् , आहोस्वित्सर्वाणि(न्) वाक्यान्यु (मन्त्रानु) च्चायति । तत्र हेयोपादेयावुभौ पक्षो क्रमेण दर्शयति-

यं कामयेत पापीयान्त्स्यादित्येकैकं तस्य जुहुयात् । यं काम- येत वसीयान्त्स्यादिति सर्वाणि तस्यानुद्रुत्य जुहुयात् ।। ८ ।।

पापीयानतिशयेन पापो दरिद्र इत्यर्थः । वसीयान्वसुमत्तरः ॥ ८ ॥ अत्रेदमपरं चिन्तनीयम् । किम्यूपाषण्मन्त्रानुच्चार्य-इमं नो देव सवितरिति यजुः सप्तमं कृत्वा पश्चात् देव सवितरित्यूचामन्तिमां कुर्यात् । किंवैतामृचं सप्तमी कृत्वा तद्यनुरन्तिमं कुर्यादिति । तत्र हेयोपादेयपक्षौ क्रमेण दर्शयति-

यदि कामयेत च्छन्दाꣳसि यज्ञयशसेनार्पयेयमित्यृमन्ति- मां कुर्यात् । यदि कामयेत यजमानं यज्ञयशसेनार्पयेयमिति यजुरन्तिमं कुर्यात् ।। ९ ।।

यज्ञयशसं यज्ञफलमर्पयेथे संयोजयेयम् । छन्दोबद्धाया ऋचस्त्वन्तिमत्त्वे यज्ञफलं छन्दःसु गच्छेत् । यजुषस्तु च्छन्दोरहितत्वेग यज्ञफलं छन्दोगामि न भवति, किंतु यजमानगाम्येव भवति । तस्माद्यजुरेवान्तिमं कुर्यादित्यर्थः । एषोऽध्वर्युकाम इति भाष्यकृत् । यजुरष्टमविधेः प्रशंसेति न्यायः ॥ ९ ॥

ऋचा स्तोमꣳ समर्धयेति चतुर्गृहीतेनोत्तराम् ।। ११.१.१० ।।

आहुति जुहोतीत्यनुवर्तते । अग्निर्देवता ॥ १० ॥

देवस्य त्वेति चतुर्भिरभ्रिमादत्ते ।। (ख० १) ।। खादिरीं वैणवीं चा कल्माषींꣳसुषिरामसुषिरां वोभयतः क्ष्णू तामन्यतरतः क्ष्णू तां वा पालाशी- मौदुम्बरीमर्कमयीꣳ शमीमयीं वा । यो वा कश्चन वृक्षः फलग्रहिस्तस्य मुष्टिमात्रीं प्रादेशमात्री