पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न:- ० सत्यापादविरचितं श्रौतसूत्रम्- [११ प्रक्षे- निविशेत । तेनाऽग्निगुणकेन ऋतुना यक्ष्यमाणः । अमावास्यायां पौर्णमास्यामेकाष्टकायां वोखासंभरणं करोतीत्यापस्तम्बः । एकाष्टका व्याख्याता सूत्रकारेण-या माध्याः पौर्णमास्या इति । अषाढा ब्यालिखितेष्टका मध्य उपधीयते तामधिकृत्येके शाखिनो धर्मा पठन्ति । तदा तूखा तूष्णी, ये तूखालिङ्गमन्त्राः ये धतूखे ' ( इत्येवमादयस्तेषा निवृत्तिः। यथा ब्रीहिलिङ्गस्य मन्त्रस्य यवेषु । अत्र संभारानाह बौधायन:- ' उखाः संभरिष्यन्नुपकल्पयतेऽश्वं च गर्दभं च तयोरेव रशने मौञ्ज्यौ वा कुशमय्यौ वाऽनिं च ब्राह्मणसंपन्नां मृद च भावितां करणीयां वल्मीकवपां कृष्णाजिनं च पुष्करपणे च योक्त्रमुदकुम्भ- हिरण्यमर्मकपालानि शर्करा अवाञ्जनपिष्टा अजलोमानि कृष्णाजि- नलोमानि वैश्य५ प्तदशः सूनामधिकरणीमुखाकृतं कुशलमिति । अ(आ)माव स्थेन वा हविषेष्ट्वा नक्षत्रे वाऽग्रेण शाला शभ्यान्यासे गर्त खनयीत । तद्भावितां मृदमवलेपयति । समां विलेन करोति । तदुपसादयति कृष्णाजिनं च पुष्करपणे च योक्कमुदकुम्भ- हिरण्यमिति, (बौ० श्री० १०-१ ] इति । तत्र कर्म-ज्योतिषा विकद्रुकेणाग्निष्टोमेन साग्निचित्ते(त्ये)न सहस्रदक्षिणेन यक्ष्ये, स्वर्ग लोकमवाप्नवानीत्युक्त्वा विद्युदासि सोमप्रवाकवरणादि करोति । ततो देवयजनया- ञ्चच्या(मा)न्ते देवतोपस्थानान्ते वा ये प्रधानस्य कर्तारस्त एवाङ्गानां स एव देश इति न्यायात् । पूर्वमृविम्वरणादि देवयजनयाञ्चया(च्ना)क्रियते : सहाङ्गं प्रधानम् । ( आप० परि० २-३९) इति सूत्रान्तरवचनाच्च ॥ ५ ॥

बृहस्पतिपुरोहिता देवानां देवाः प्रथमजा देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीया- स्तृतीयेषु त्रिरेकादशास्त्रयस्त्रिꣳशा अनु व आरभ इदꣳ शकेयं यदिदं करोमि स्वाहेत्याहुतिं जुहोति ।। ६ ।।

अग्नीन्विहृत्योखासंभरणार्थम् । अत्र बौधायनोऽप्याह-'परिस्तृणन्ति । दक्षिणत उपविशतो ब्रह्मा च यजमानश्च' (बौ• श्री० १०-१) इति । जुहोतिचोदना- स्वाहाकारप्रदानम् । साधननियममपि-'आहवनीय आहुतयो जुहा हूयन्ते । इति पारिभाषके द्रष्टव्यम् । देवा देवता ॥ ६ ॥

जुहूꣳ स्रुवं च संमृज्य चतुर्गृहीतमाज्यमष्टगृहीतं वा गृहीत्वा युञ्जानः प्रथमं मन इति यजुरष्टमा भिर्ऋग्भिरन्तर्वेद्यूर्ध्वस्तिष्ठन्सावित्राण्येकामाहुतिं जुहोति ।। ७ ।।