पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] - महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । दिविरोधात् । न हि प्रकरणेन वाक्यसंकोचो युक्तः । किंच प्रकृतेरेवाग्निष्टोमत्वमन्यापेक्ष विकृतीनां स्वतिदेशापेक्षामिति प्रकृतिरेवानेनाभिधीयते । न चात्र साप्तदश्यन्यायः, साप्तदश्यस्य हि सामिधेनीमानसंबन्धो वाक्येनावगम्यते ऋतुसंबन्धः कल्पयितव्यः । पाश्चदश्यस्य तु प्रकरणेन संबन्धः क्लप्त इति युक्तं बलावलम् । अग्निष्टोमशब्दस्तु क्रतु- मेवाभिधत्त इति तत्संबन्धो वाक्यकृत इति न प्रकरणेन वाघमर्हति । तस्मादस्ति प्रकृ- तावनिरिति विकृतिप्वप्यतिदिश्यते । तत्र साद्यस्केषु सारस्वतेषु च सत्रेप्वशक्यत्वा- काममग्निर्न चीयतां षोडशिवाजपेययोस्तु चेतव्यः ॥ २ ॥

अपि वा धार्यमाणेऽग्नौ प्रजापतिस्त्वा सादयतु तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेत्यन्तर्वेदिमभिमृशेत् । तिस्रो वा स्वयमातृण्णा उपधाय तासामुपधानकल्पः स्वयमातृण्णा साम पुरीषं विश्वज्योतिः । एवं विहिता द्वितीया पुरीषा तृतीया ।। ३ ।।

अपि वा तिस्रश्च स्वयमातृण्णाः सर्वाश्च विश्वज्योतिषस्तासामुपधानकल्पः स्वयमातृण्णा साम पुरीषं विश्वज्योतिरेवं विहिता द्वितीया तृतीयस्यां तु विश्वज्योतिः प्रथमा । अथ पुरीषम् । अथ स्वयमातृण्णाम् । अथ साम ।। ४ ।।

शर्कराख्यानां क्षुद्रपाषाणानां मध्ये पुरुषप्रयत्नमन्तरेण या स्वत एव च्छिद्रयुक्ता सेयं शर्करा स्वयमातृण्णा, तामत्रोपदध्यात् । विश्वशब्दोपेतेश्च मन्त्रै (ते० सं०४ ( ४ । ६ ) रुपधेया विश्वज्योतिषः । ताश्च तिनः प्रथममध्यमोत्तमचितिधूपदध्यात् । शेष स्सष्टम् ॥ ३ ॥४॥

तं चेष्यमाणोऽमावास्यायां पौर्णमास्यामापूर्यमाणपक्षे वा पुण्ये नक्षत्र ऋत्विजो वृत्वा ।। ५ ।।

अग्नयाधारत्वादिष्टकास्थण्डिलमुच्यते तत्संयोगात्ऋतुरप्याशिरुच्यते । अग्निं चेप्य- माणः ( आप० श्री० १६-३-१) इत्यापस्तम्बोक्तेः । तं चेप्यमाणः स्थण्डिलरूपा- निगुणकेन ऋतुना यक्ष्यमाणो भवति । तस्यानेः सोमाङ्गत्वात्सोमाङ्गरिह न्यतिषङ्गः । तस्याग्नेरनारम्याधीतत्वा स च सोमाङ्गेन पृथक्फलकः । उत्तरवेदिकार्थे तस्यैष स्वलेोको यदुत्तरवेदिर्नाभिः, इति प्रणयने प्रकृती श्रूयते । साग्निचित्ये तु ऋतौ स्वयमातृण्णाया- मासादनम् ! तस्माद्विकृत्यर्थमकाम्यत्वात् । यदि काम्यः स्यागोदोहनादिवत्प्रकृती H