पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 सत्यापाढविरचितं श्रौतसूत्रम्- द्विरात्रेण तं त्रिरात्रेण ' इति । अतः प्रकृतावेवाग्निचयनोत्तरषेद्योर्विकल्पितयोः प्रकृति- तिवद्विकृतिष्वपि विकल्पः । अत एव सर्वत्र विकृतिषु विकल्पप्रसक्ती-साग्निचित्यो भवति । पक्षिभ्यां साग्निचित्याभ्याम् ' इति नियमविधिरुपपद्यते, बीहिमयपशुपुरोडाश- वत् । द्विगवादिष्वग्निचयनविधानमोपदेशिकत्वेन गुणकामादिसिद्धयर्थमिति । नन्वग्निरनारभ्यवादविहितः स वाक्येन प्रकृतौ विकृतिषु च कासुचिद्विनियुज्यते- 'अथातोऽग्निमग्निष्टोमेनानुयजन्ति तमुक्थ्येन तमतिरात्रेण तं त्रिरात्रेण ' इत्येवमा द्वाद- शराबादनुक्रान्तः सोऽयमग्निर्यासु विकृतिषु वाक्येन नोपदिष्टो यथा षोडशिषु वाजपेये च तत्र कि चोदकप्राप्त्या कर्तव्यो नेति संशयः । तथाऽतिमाह्या नाम महाः प्रकृती श्रुताः, विकृतिष्वपि कासुचिद्रुपदिष्टाः 'उक्थ्ये गृहीयारपृष्ठे गृह्णीयात् विश्वनिति प्रगृ- (ग्रोहीतव्याः' इति । तेऽपि विकृत्यन्तरेषु ग्राह्या नेति संशयः । तत्र- 'चोदकेनापन्यतिमाझं विकृती न प्रदिश्यते । कासुचिच्छ्रवणं तस्य तथाहि स्यादनर्थकम् ॥ तस्मात्तदर्थवत्त्वाय प्रदेशो मेति कल्प्यते । तेन यत्रोपदेशोऽस्य तत्रैवान्यत्र न किया। उच्यते- अङ्गान्तरवदस्यापि प्राप्तिश्चोदकतो ध्रुवा । चोदकार्थस्य कृत्स्नत्वात्कासुचिच्छ्रवणं पुनः ॥ सामान्यविध्यासिद्धयर्थं नातिदेशे निवारयेत् । चेत्सामान्यविधी कोऽयोगुणकामप्रवर्तनम् ' ॥ यासु विकृतिषु विधीयते तासु प्रकृतौ च समान विधानं भवति । विकृत्यन्तरेषु तु चोदकतः प्राप्तिरिति न प्रकृतितुल्यं विधानं, समानविधानत्वे च प्रयोजनमग्न्याश्रितानां गुणकामानाम्-'श्येनचितं चिन्वीत स्वर्गकामः' इत्यादीनां सास्वपि विकृतिषु प्रवृत्तिः । गुणकामा हि प्रकृतमाग्निमाश्रयन्ति प्रकृतश्चाग्निः प्रकृतिविकृतिसाधारणभूत इति तथा- भूतस्याऽऽश्रयत्वाद्विकृतिष्वपि गुणकामप्रवृत्तिः । यासु विधिर्नास्ति तासु तु न गुणकामाः प्रवर्तन्ते निवृत्तिर्वा कर्मभेदात् ' इति न्यायात् । तदेवं गुणकामप्रवृत्त्यर्थ विकृतिषु कासुचिच्छ्रवणमिति न तहलेनातिदेशाभावः शक्यते कल्पयितुम् । तस्मादस्त्यतिदेशः। अत्र केचिदाहुः– अनारम्याधीतोऽग्निः प्राकरणिकोत्तरवेदिविरोधात्प्रकृतौ न लभ्यते निवेशम् । अप्राकृतश्च न विकृतिष्वतिदिश्यते तेनोपदेशेनैवास्य विकृतिषु प्राप्तिरित्यनु- पदेशतः षोडशिवाजपेययोनौग्निश्चेतव्य इति । तदयुक्तम् । अग्निष्टोमवाक्येन प्रकृतावपि विधानात् । न तु विकृत्यग्निष्टोमाभिप्रायं तद्भविष्यति प्रकृती प्राकरणिकोत्तरखें- -