पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, १ पटलः] - महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३ यज्ञदत्त इत्युक्ते देवदत्तोऽपि गच्छतीति प्रतीयते, अन्यथाऽनुगमानुपपत्तेरेवमनुयजन- पशादेवाग्नेर्यागत्वसिद्धिः । तस्माधागविधानं स्यादिति प्राप्तेऽभिधीयते- अग्नेश्चयनसंस्कारमात्रमत्र विधीयते । तस्याथातोऽग्निमित्यादिवाक्यैः स्यात्क्रतुसंगतिः ॥ वह्नौ रूढोऽग्निशब्दोऽयं न हि यागस्य वाचकः' । नह्यग्निशब्दोऽत्यन्तरूढत्वाद्वाक्यभेदतत्प्रख्यतद्वयपदेशविधुरत्वाच्च यागनामत्वं प्रति- पद्यते । तेन ज्वलनस्ये(स्यै)वाऽयं चयनसंस्कारो विधीयते । तस्य च संस्कारस्य ऋतु- संबन्धपराण्यथातोऽग्निमग्निष्टोमेनानुयजन्ति, इत्यादीनि । अत्राग्निशब्दः प्रकरणाच्चयन- संस्कृतेऽनौ वर्तते । अनुशब्दश्चयनापेक्षया पश्चाद्भाव्यग्निष्टोमादि नामाऽऽह । तेन चयनसंस्कृतेऽग्नावग्निष्टोमादिभिर्यजेतेत्यर्थः। न त्वत्राप्यग्निशब्दो यजिसमानाधिकर- णो येन नाम स्यात् । म चावश्य तुल्यरूपाणामेव पौर्वापर्यम् । ' पाकमनुभुङ्क्ते इत्यादिषु विजातीयानामपि दर्शनात् । तस्मादपि ज्योतिष्टोमादिषु गुणविधिः ॥ १ ॥

स उत्तरक्रत्वर्थः । अन्यत्र साद्यस्क्रेभ्यो वाजपेयात्षोडशिनः सारस्वताच्च सत्रात् । अग्निशिनस्तोमो यथोपदिष्टं वा । रात्रिसत्रेषु समहाव्रतेष्वश्रवणार्था पुनश्चितिः ।। २ ।।

स चाग्निः परेडशिनि तद्विकारे च वाजपेयेऽसंकीर्तनान्न भवति । साद्यस्वेषु सद्यः परिसमाप्तेरसंभवाच्चयनाभावः । सारस्वते सत्रेऽनवस्थानान्नाग्निश्चीयते । अत एते. भ्योऽन्यत्रोत्तरेषु ऋतुष्वग्निः । उत्तरेषु ऋतुष्वग्निविधानात्तत्र प्रकरणाम्नातोत्तरवेदिः, तत्राऽऽहवनीयात्प्रणीयते । उत्तरेषु क्रतुप्वग्निष्टोमोत्तरकालकार्येषु साद्यस्क्रादिभ्योऽ- न्यत्राग्निष्टुज्ज्योतिष्टुदादिविकृतिष्वनारभ्याधीतोऽग्निश्चीयते । चितावाहवनीयप्रणयनम् । तेषूत्तरवेदिरपि लभ्यते–' साग्निचित्यो भवति पक्षिभ्यां साग्निचित्याभ्याम् ' इति क्वचि- नियमविधानादन्यत्रानियम इति केचिदाहुः । ' उत्तरवेद्या५ ह्यग्निश्चीयते ' इत्यनारभ्या- धीतोऽग्निरुत्तरवदिद्वारेण प्रकृतिं गच्छति । यथा स्रुवद्वारेण खदिरः । तत्राग्निचयनेन प्रकृताववरुद्धायां बढचवचनात्- 'अग्निवै देवानां होता तस्यैष स्वो लोको य उत्तर- नाभिः ' इति प्रणेयोऽग्निरुत्तरनाभौ प्रतिष्ठाप्यः । एवमुत्तरवेद्यन्तः प्रत्यायनमग्निचयनं विकृत्यर्थं भविष्यति साप्तदश्यवत् । तदाहाऽऽपस्तम्बः-अग्निष्टोम उत्तरवेदिः । उत्तरेषु क्रतुष्वग्निः, (आप० परि०४-८) इति । तत्रैवाग्निष्टोमसंस्थे ज्योतिष्टोमे वचना- ग्निचयनं भविष्यति । ' अथातोऽग्निमग्निष्टोमेनानुयजन्ति तमुक्थ्येन तमतिरात्रेण तं .