पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ सत्यापाढविरचितं श्रौतसूत्रम् | १४ प्रश्ने-

सर्वमेधो दशरात्रः । यः कामयेत सर्वमिदं भवेयमिति । स राजे(एते)न यजेत। तस्य पुरुषमेधेन कल्पो व्याख्यातः॥१५॥

अथ सर्वमेधो दशरात्रो राजा यजेत । तद्द्वादशाहाविच्छिन्न दीक्षत इति सूत्रान्तरात् । शैशिरे वसन्ते वा पर्वणि पत्नीभिः सह राजा सर्वमेधेन यक्ष्य इत्यादि । षष्ठयां दीक्षणीया सप्तहोतुः स्थाने दशहोता दशरात्राय दीक्षिष्यमाण इति ब्राह्मणम् ॥ १५ ॥

त्रिस्तावा वेदिरेकशतविधोऽग्निरग्निष्टुत् ॥ १६ ॥

पश्चाशदधिकचतुःशताङ्गुली(ल)समितः पुरुषः पुरुषस्थानीयः । तेनाग्निमानमरनिप्रादेशयोर्वाऽपि विवृद्धिपक्षे पश्चोत्तरशतविधाभ्यासेन चैकोत्तरशतविधाभ्यासेन चैकोत्तरं शतम् । उक्तस्य पुरुषस्य चतुर्भागीयास्तदर्धेन तत्पादाः पुरुषस्य पञ्चमांशेन पञ्चमभागीयास्तदर्धेन तत्पादाः पुरुषस्य पञ्चदशभागेनाष्टाङ्गुलाः षड्भागीया वा । गाईपत्यस्य धिष्णियानां प्राकृत (ता) एव करणीयः(याः) ॥ १६ ॥

अग्निष्टोमः प्रथममहः । सर्वमाग्नेयं क्रियते ॥१७॥ इन्द्रस्तुदुक्थ्यो द्वितीयꣳ सर्वमैन्द्रं क्रियते॥१८॥ सूर्यस्तुदुक्थ्यस्तृतीयꣳ सर्वꣳ सौर्यं क्रियते ॥१९॥ विश्वेदेवस्तुदुक्थ्यश्चतुर्थꣳ सर्वं वैश्वदेवं क्रियते ॥ १४.६.२० ॥ आश्वमेधिकं मध्यमं पञ्चमम् । तस्मिन्नश्वं मेध्यमालभते ॥ २१ ॥ पौरुषमेधिकं मध्यमꣳ षष्ठम् । तस्मिन्पुरुषान्मेध्यानालभते ॥ ॥ २२ ॥ अप्तोर्यामः सप्तमम् । तस्मिन्सर्वान्मेध्यानालभते ॥२३ ॥ वपा वपावतां त्वच उत्कृत्यावपानां जुहोति ॥२४॥ संवृश्चौषधिवनस्पतीनार्द्राञ्शुष्काश्चाꣳश्चानुप्रकिरन्ति ॥ २५ ॥प्रातःसवने सन्नेषु नाराशꣳसेषु चान्नमन्नं जुहोति ॥२६॥ सर्वं जुहोति सर्वस्याऽऽप्त्यै सर्वस्यावरुद्ध्या इत्येवं माध्यंदिने सवने तथा तृतीयसवने हुतेषु .हविःषु त्रिणवमष्टमम् । त्रयस्त्रिꣳशं नवमम् । विश्वजित्सर्वपृष्ठोऽतिरात्रो दशमम् ॥ २७॥