पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ पटलः ] महादेवशाखिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । २५७

उपाकृत्य पञ्चहोमादि पर्यग्निकृतान्पुरुषानुत्तरतो नत्विोत्सृजति । तत आज्येन तद्दे. वतायै (याः ) ब्रह्मणे स्वाहा इत्यादिहोमा द्वयोरेकादशिनी: संस्थापयन्ति पत्नीसंयाजान्तं पूर्ववदहीनसंततयः । अन्वाधानादि रात्रौ परिस्तरणान्तम् । महाराने बुद्ध्वेत्यादि पञ्चदश उक्थ्योऽग्निष्टोमो वा । अतिग्राह्यं न वा । ऐन्द्रवायवग्रहः । अग्निष्टोमपक्षे दधिधर्मः पत्नसियाजान्तं पूर्ववदहीनसंततयः परिस्तरणान्तम् । महाराने बुद्ध्वेत्यादि सप्तदशोऽतिरात्रः शुक्रग्रहो यज्ञामाज्ञिये० नमस्ते अस्तु कृष्णविषाणप्रासनं तिरोहान्तम् ॥ ९॥

दक्षिणाकाले मध्यमं प्रतिराष्ट्रस्य यदन्यद्ब्राह्मणाद्दिक्षु वित्ताद्भूमेः सेनाभ्यश्च तत्पुरुषमेधे ददाति. ॥ (ख०१७) ॥ १४.६.१० ॥

मध्यमं प्रतिराष्टस्येति क्षत्रिययजमानविषयम् ।। १० ।।

यथाऽश्वमेधे ब्राह्मणो यजमानः सर्ववेदसं दद्यात् ॥ ११ ॥

ब्राह्मणो यजमानश्चेत्तदा सर्ववेदसं ददाति ॥ ११ ॥

एकादश यूपा एकादशानूबन्ध्या मैत्रावरुणी वैश्वदेवी बार्हस्पत्या वा ॥ १२ ॥

अवभृथादुदवसानीयान्तमग्निष्टोमवदिति भाष्यकृत् । अनुबन्ध्या एकादशसु यूपेषु सूर्यदेवत्या वैश्वदेवत्याः प्रजापतिदेवत्या वा । अनुबन्ध्याः समाप्य ग्रन्थिविस्त्रंसनादि ॥ १२ ॥

त्रैधातवीयोदवसानीया तयेष्ट्वा पृथगरणीष्वग्नीन्समारोह्योत्तरनारायणेनाऽऽदित्यमुपस्थाय गृहेषु प्रत्यवस्येद्यानभिप्राप्नुयात्तान्यज्ञक्रतूनारभेत॥१३॥ संतिष्ठते पुरुषमेधः ॥ १४ ॥

अधातवीयोदवसानीयास्थाने भवति । तयेष्ट्वाऽझीन्समारोप्य-अद्भयः संभूतः पृथिव्या इत्यनुवाकेनाऽऽदित्यमुपस्थाय ग्रामं प्रविश्य वैधातवीयया यजेत वेति । अनन्तरे पर्वणि सौत्रामणी मैत्रावरुणी च । ततोऽमावास्यायां साकंप्रस्थायीयेन यजेत । पञ्चविलेन चरुणा पञ्चशारदीयेनेति । पञ्चविलस्य चरोविज्ञायते । आज्य आग्नेयः पूर्वस्मिन्विले । दधन्येन्द्रो दक्षिणे । शृते प्रतिदुहि [नवनीतमि वा वैश्वदेवः पश्चिभे । अप्सु मैत्रावरुण उत्तरे । पयसि बार्हस्पत्यो मध्यमे ( आप० श्री० २०-८-२५) इत्याप. स्तम्बः । ब्राह्मणभोजनान्तेयमिष्टिः । समाप्यते पुरुषमेधः ॥ १३ ॥ १३ ॥ -