पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ , सत्यापाढविरचितं श्रौतसूत्रम्- [१४ प्रश्ने

प्रयोगः । शिशिरे पर्वणि प्रातरग्निहोत्र हुत्वा पुरुषमेधेन यक्ष्य इत्यादि । विद्युत् सोमप्रवाकवरणादिसक्षेदान्तं बृहस्पतिपुरोहिता इत्याद्युखासंभरणान्तं तस्मिन्नेवाहनि वायव्यः पशुः प्रवर्ग्यसंभरणं च । पष्टचा द्रव्यनिर्देशादग्निवदीक्षणीया, उखाप्रवृजनादि सर्वमग्निवत् । व्यहमेकैका चितिः प्रायणीय ऋषीष्टकानां विश्वेषु त्वा. इत्यादीनामुपधाय विरामः । न वाङ्य आसन्नाश्वः । श्वोभूत एकाद्यष्टकाद्यश्वपरिणयनान्तम् । श्वोभूत एकाष्टकामुपधाय विरामः । एवं प्रत्यहं पञ्चमेऽग्निनातानित्यादिस्तोमभागान्तमुअधाय विरामः । श्वोभूते स्तोमभागादिसंयानीयान्तं प्रत्युदमुपसादयत्यध्वर्युः। ऐन्द्रवायवग्रहमाग्नेयमतिग्राह्यं दक्षिणाकालेऽश्वमेधे यथा भवति तथा ददाति । यज्ञायज्ञीये नमस्ते अन्तु । अस्मिन्काले वसतीवरीरुत्तरस्याह्नः । एवं पत्नीसंयाजान्तमहः सतिष्ठते । अहीनसंततयः सवनीयस्य परिस्तरणीयान्तः । अध्वर्युर्महाराने बुद्ध्वा पञ्चदश 'उक्थ्यः षडहस्य द्वितीयविकारः शुक्रायः(हः)ऐन्द्रमतिग्राह्यमेक ऐन्द्रः । ऐन्द्रपत्नीसंयाजान्तमहीनसंततयः सवनीयस्य परिस्तरणान्ते महाराने बुद्ध्वोक्थ्यं सौर्यमेकमातियाह्यमेकमेकादशनीवेदिपरिव्ययणं कुर्यात् ॥ ३ ॥

देव सवितः । तत्सवितुः । विश्वानि देव सवितरिति पुरुषानुपाकरिष्यꣳस्तिस्रः सावित्रीर्जुहोति॥४॥

तिल ऋचः सावित्रीः सवितृदेवताप्रकाशका इत्यर्थः ॥ ४ ॥

ऐकाशिनानुपाकृत्य पुरुषानुपाकरोति ॥ ५॥

द्वयामैकादशिनानुपाकृत्य पुरुषानुपाकरोतीत्यर्थः ॥ ५ ॥

ब्रह्मणे ब्राह्मणमालभत इति यथासमाम्नातम् । तेषामष्टाचत्वारिꣳशतं मध्यम उपाकरोति ॥ ६ ॥ एकादशैकादशेतरेष्ववशिष्टान्मध्यमेऽष्टौ वा ॥ ७ ॥ उत्तमानग्नियुक्तान्पुरुषान्सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पुरुषेण नारायणेन दक्षिणतो ब्रह्माऽभिष्टौति ॥ ८॥

ऐकादशिनानाश्वमेधिकांश्योपाकृत्य पुरुषानालभते ब्रह्मणे ब्राह्मणमिति (ते० प्रा० ३-४-१) चतुर्थ्यन्तपदोक्ता देवताः । द्वितीयान्ताः पशवः । ब्रह्मणे त्या जुष्टमुषाकरोमीत्यादि । स्पष्टमन्यत् ॥ ६ ॥ ७॥ ८ ।।

पर्यग्निकृतान्पुरुषानुदीचो नीत्वोत्सृज्याऽऽज्येन तद्देवता आहुतीर्हुत्वाऽथैकादशिनीः सꣳस्थापयन्ति॥९॥