पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ पटलः] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । २५५

गृहं गत्वा द्वादश ब्रह्मौदनानि (न् ) समिद्वर्जमग्न्याधेयवत् । यजमानः सहत्विम्भिोजयित्वा द्वादशाहमन्वहम् । अन्वहं द्वादशशतं दानम् । एवं च राज्ञो नित्योऽश्वमेधः । नैमित्तिककाम्ययोर्वा परिगणनादित्येके । तदसत् । राजा सार्वभौमोऽश्वमेधेन यजेत इति वचनाच्च । द्वादशभिर्वेष्टिभिर्यजेतेति नैमित्तिकेष्टिरोदनो द्रव्यमग्निर्देवताऽन्वा'धानादि सिद्धमिष्टिः सतिष्ठते । तास्विष्टिषु द्वादशानि शतानि चान्वहं ददातीत्युक्तम् । इष्टया यक्ष्य इत्यादि विशेषः । आगामिपर्वणि सौत्रामणी मैत्रावरुणी चाऽऽमिक्षा वा । आगामिनि वसन्ते पर्वणि पशुबन्धेन यक्ष्य इत्यादि । पिशङ्गास्त्रयो गोरोचनवाः सारङ्गाश्चातकवर्णाः । पृषन्तस्त्रयः । पृषन्तस्त्रयः पृश्निसक्थ्या महाकाया अवलिता अन्येन वर्णेन मिनिताः । अथान्यस्मिन्पर्वणि संवत्सरदेवतास्त्रिभिर्यजेत निवक्षसः निम्नवक्षसो नीलवक्षसो वा । त्रिपशुबन्धा एतदन्तं यजमानस्य ब्रह्मचर्यादि पारसमाप्यतेऽश्वमेधः ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रि कायां चतुर्दशप्रश्ने पञ्चमः पटलः ॥ ५ ॥

14.6 अथ चतुर्दशप्रश्ने षष्ठः पटलः ।

पञ्चाहः पुरुषमेधः । राजा ब्राह्मणो वा । यः कामयेत सर्वेषां भूतानां जैष्ठ्यꣳ श्रैष्ठ्यꣳ स्वाराज्यमाधिपत्यं गच्छेयमिति । स एतेन यजेत॥१॥

पञ्चासाध्यः पुरुषमेधः । ब्राह्मणो राजन्यो वा यजेत, न तु वैश्यः | ओजो वीर्यमाप्नोतीति वचनात् । सर्वा व्युष्टीय॑श्नुत इत्यापस्तम्बः ॥ १ ॥

तस्याश्वमेधेन कल्पो व्याख्यातः ॥ २ ॥

तस्य पुरुषमेवस्य ॥ २ ॥

त्रयोविꣳशतिर्दीक्षाः । द्वादशोपसदः । पञ्च सुत्याः । एकादश यूपा एकादशाग्नीषोमीया अग्निष्टोमः प्रथममह उक्थ्यो द्वितीयमतिरात्रस्तृतीयमुक्थ्यश्चतुर्थमग्निष्टोमः पञ्चमम् । मध्यमेऽहनि पौरुषमेधिकान्पशूनुपाकरोति ॥ ३ ॥

तस्याहीनद्वादशाहवदिति भाप्यकृत् । शिशिरे दीक्षते । अग्निचित्यमाश्रित्य