पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५. पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् ।

श्वोभूते त्रिपशुना पशुबन्धेन बैल्वे त्रिविशाखे यूपे यजत आग्नेयमैन्द्राग्नमाश्विनम् । तान् पशूनालभते । अपिवा त्रैतानां प्रथमजमाश्विनं कालकाभ्रुमश्विभ्यां मध्यमे विशालयूपे त्रैतानां मध्यमजमूर्जे दक्षिणे विशालयूपे त्रैतानामुत्तमजं पृथिव्या उत्तरे विशालयूपे ॥ ११ ॥

न पविष्टयादयः । शाखाहरणाद्यनबन्ध्यादिवत् पात्रप्रयोगे तिस्रः कुम्भ्यः । विष्णान स्थेत्यन्तं कृत्वा यूपसमानमपरादूर्ध्व त्रिशाखमष्टाश्रियः, सचषालमध्यमे विशालयूपे, अग्नये त्वा० दक्षिण इन्द्राग्निभ्यां त्वा. उत्तरे, अश्विभ्यां त्वा- पैतानां प्रथम प्रथमपुत्रम् | कालकाभ्रुः कृष्णानुः । मध्यमयूप आश्विनदेवत्यमालभते । तस्यामेव जातायां मध्यमजमूर्दैवत्यं दक्षिणे यूपे तस्या एव तृतीयायां पृथिविदेवत्यम् । उत्तरे यूप इति पक्षान्तरम् । उपाकृत्य पञ्चहोमादिनियोजनादिवपाहोमान्तं कुर्यात् ॥ ११ ॥

पशुपुरोडाशं निरुप्याग्नयेऽꣳहोमुचेऽष्टाकपालमिति दशहविषं मृगारेष्टिं निर्वपति ॥ १२॥

अथ पशुपुरोडाशस्य कर्म । तेषां पशुरोडाशानाम् । अग्नयेऽहोमुचेऽष्टाकपाल इति दशहविर्ष मृगारेष्टिं निर्वपति । पञ्चसप्ततिः कपालानि अन्यदर्जनार्थमेकं द्वे स्थाल्यौ प्रातदोहपात्राणि वाजिनपात्रं च । अग्नये जुष्टं ० इन्द्राग्निभ्यां जुष्टं ० अश्विभ्यां जुष्टं ० (दशहकिषामिष्टीनामेकतन्त्रम् । ) अग्नयेऽहोमुचे जुष्टं ० इन्द्राया होमुचे जुष्टं वायोः । सवित्र आगोमुग्भ्यां० वायुसवितृभ्यामागोमुग्भ्यामिति वा मैत्रायणीयपाठः । अश्विम्यामागोमुग्भ्यां मरुद्भय एनोमुग्भ्यो जुष्टं० विश्वेभ्यो देवेभ्य एनोमुग्म्यो जु० अनुसत्य जुष्टं० अग्नये वैश्वानराय द्यावापृथिवीभ्याम होमुग्भ्यां ० इति । अग्नेऽ होमुग्धव्य रक्षवे. दाहोमुग्धव्यं रक्षस्वेत्युत्करे चिनिनीय यथाभागमिदभग्नेर होमुचो मरुनामेनोमुच विश्वेषां देवानामेनोमुचामनेर्वैश्वानरस्य द्यावापृथिव्योर होमुचोरिति पेषणार्थान् । इदं वायोः सवितुरागोमुचावचिनावागोमुचारनुमत्या इतिचर्वर्थान् । निर्वापक्रमेण कपालोपधानमाग्नेयादीनामेकादशैकादश, मृगाराणामष्टावकादशेत्यादिस्थालीद्वयं भर्जनार्थ (सप्त द्वादश स्थालीः ) द्वादशद्विकपालमेवमुपधाय दोहकर्म संक्षालननिनयनार्थं कामधुक्षः मित्रावरुणाभ्यामागोमुग्म्या५ हविरिन्द्रियमित्यादि पिण्डं कृत्वा ब्यावर्तध्वमिति सप्तक वस्तथा तण्डुलार्थान्न्यावर्तध्वं न्यावर्तेषां पुनरथ व्यावर्तध्वमिति द्वौ पुरोडाशी व्यावर्तेषामित्यु १ क. तस्या एवजाताया मध्यम ।