पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ पटलः ] महादेवशास्त्रिसंफालवप्रयोगचन्द्रिकाव्याख्यासमेतम् । २५१

पत्नीसंयाजान्तमहः संतिष्ठते ॥ (ख०१४) ॥ ५९ ॥

इति सत्याषाढहिरण्यकशिसूत्रे चतुर्दशप्रश्ने चतुर्थः पटलः ।

आनिमारुतान्तमन्यानादि पत्नीसंयाजान्तं समिदाधानान्तं महः सतिष्ठते ।। १९ ।। इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां चतुर्दशप्रश्ने चतुर्थः पटलः ।

14.5 अथ चतुर्दशप्रश्ने पञ्चमः पटलः ।

श्वोभूते प्रतायते सर्वस्तोमोतिरात्र उत्तमो बृहत्सामा ॥ १ ॥

यज्ञायज्ञीय नमस्तेऽस्तु अहः पक्षे वसतीवरीगुहाति सवनीयपरिस्तरणान्तं पूर्ववत् । महाराने बुद्ध्वेत्यादि । अतिरात्रः सर्वस्तोमश्च बृहत्सामा । ध्रुवं प्रयुज्य षोडशिपात्रं परिप्लवादि । संवनीयस्य पशोः पात्रासादनकाले द्वादश पशुरशनाश्चतुर्विशति यूपरशनाः पूर्वबद्धा विस( स्त्र )स्य' पुरस्तात्तातरनुवाकादग्निं युनज्मीति । अन्वहपले आग्रयणानं सदसि बहिष्पवमानः ॥ १ ॥

पशुकाल ऐकादशिनान्वायव्यान्पशूनुपाकरोति । प्राजापत्यमृषभं तूपरं बहुरूपं द्वादशमुपालम्भ्यꣳ सर्वेभ्यः कामेभ्यः ॥ २॥

पशुकाले त्रिवृद्भ्यां परिवीय-अग्नयेऽनीकवत इत्याश्वमेधिकान्गव्यान्प्राजापत्यमिस्यादि । अथवा----अग्नयेऽनीकवत इत्येतासां देवतानां स्थाने प्रजापतिर्वा विश्वे देवा इत्यस्मिन्पक्षे देवतैक्यात्समवदाय प्रचारः । पूर्वस्मिन्पक्षे देवतानानात्वात्प्रचारमेदः । पक्षद्वये गन्या एव पशवः । वैश्वदेवपक्ष एकादशिना(शानां) सह प्रचारः । प्राजापत्यपक्षे द्वादशानाम् । पशूनेहीत्यादि । दक्षिणाकाले विभज्य ददाति । कृष्णवि. पाणप्रासनम् । उनथ्यपर्यायः प्रचर्येत्यादि आश्विनं तिरोहान्तम् । एकादश समिष्टय. जूषि, इत्यादि प्रकृतिवत् ॥ २ ॥

अवभृथेन प्रचरिते पुरस्तात्स्विष्टकृतः॥ ३ ॥

त अवश्येन प्रचर्य यत्ते प्रान्णेति बिन्दुस्पर्शनान्तम् ॥ ३॥

आत्रेयं खलतिं विक्लिधꣳ शुद्धं पिङ्गाक्षꣳ शिपिविष्टं तिलकावलमवभृथमभ्यवनीय जुम्बुकाय