पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमैतम् । २४५

आत्मा० अनेरुत्तरतश्चित्यामेवापरेणाऽऽहवनीयं गत्वा वेतसशाखायामश्वतूपरगोमगाणा वपा आसादयति सुपिप्पला ओषधीः कृता इति ॥ २४ ॥

दक्षिणतः प्लक्षशाखास्वितरेषां पशूनाम् ॥ २५॥

वपा आसादयतीत्यनुवर्तते । दाक्षिणतः प्लक्षशाखा स्वितरेषां पशूनां वपा आसादयतीत्यर्थः ॥ २५॥

एकधा प्राजापत्यानां वपाभिः प्रचरति ॥ २६॥ एकधेतरेषां पशूनां प्राजापत्यानां चन्द्रस्य वपयोर्मेदसोऽनुब्रूहि । प्राजापत्यानां चन्द्रस्य वपयोर्मेदसः प्रेष्येत्यश्वस्य तूपरस्य गोमृगस्येति वपानाꣳ संप्रेष्यति वपा मेदः प्रस्थितं प्रेष्यति वा ॥ २७ ॥ विश्वेषां देवानामुस्राणां छागानां - मेषाणां वपानां मेदसोऽनुब्रूहि । विश्वेषां देवानामुस्राणां छागानां मेषाणां वपानां मेदसः प्रेष्येतीतरेषां पशूनाꣳ संप्रेष्यति । वपां मेदः प्रेष्येति वा ॥ २८ ॥

शाखाद्वयं बर्हिःप्रत्याम्नायत्वेनाऽऽसन्नाभिमर्शनमुत्तमप्रयाजादिः स्वाहा देवेम्य इति हुत्वा महिमानं जुहोति राजतेन तस्य ते द्यौरित्यनुवाकशेषेण । प्रजापतिर्देवता । हुत्वाऽभिषेकार्थमवशेषयति । जुह्वामुपस्तीर्येत्यादि प्रकृतिवत् । अश्वादीनां वपाः समवदाय संप्रेष्यति । उपांशुना वा प्रजापतयेऽश्वस्येत्यादि । जातवेदो वपामिर्गच्छ चन्द्रवपाभिर्गच्छ देवा० इति वा । प्रजापतेरहं० जेमानमिति वा । इतरेषा पशुनों को अवदाय संप्रेष्यति विश्वेभ्यो देवेभ्य इत्यादि । सर्वे पशवो वैश्वदेवार्थी भवन्तीति वैखा. नसः ॥ २६ ॥ २७ ॥ २८॥

पुरस्ताद्वपानाꣳ होमात्स्वाहा देवेभ्य इति पूर्वं महिमानं जुहोति यस्ते देवेषु महिमा संबभूवेति वा हुत्वा शेषं करोति ॥ २९ ॥ उपरिष्टाद्वपानाꣳ होमाद्देवेभ्यः स्वाहेत्युत्तरं यस्ते पृथिव्यां महिमा संबभूवेति वा हुत्वा शेषं करोति ॥१४.४.३०॥ अत्रैव मार्जनमाम्नातम् ॥ ३१ ॥

जातवेदो वपाभिर्गच्छेत्यूहेन विश्वेषां देवानां प्राणैः० प्राजापत्याभिश्चरिस्वाऽयेतरवपाभिश्चरत्यध्वर्युः । (श्चरन्त्यध्वर्यवः ) । अथ महिमानमुत्तरं सौवर्णेन तस्य ते-पूर्षि 21..