पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ . सत्यापाढधिराधितं श्रौतसूत्रम्-... [ १४ प्रश्

वीति होमसपातमन्यस्मिन्पाने निधाय पारवप्यम् । अथ बोद्धरणाभिधारणं स्वाहोय. नमसमित्येकादशिनीवत् । संत्राव हुत्वा समुत्क्रम्य चात्वाले मार्जनम् ॥ २९ ॥

अग्रेणाऽऽहवनीयमभितो यूपमुपविश्य होता ब्रह्मा च ब्रह्मोद्यं वदतो दक्षिणतो ब्रह्मोत्तरतो होता। अथ वा किꣳ स्विदासीत्पूर्वचित्तिरिति होतुः पृष्ठानि प्रज्ञातानि ब्राह्मणे । ब्रह्मणो विजयꣳ संज्ञपयन्ति ॥ ३२ ॥

यद्यग्निष्ठयुपमभितो ब्रह्मोद्याय दक्षिणतो ब्रह्मा, उत्तरतो होता कि स्विदासी० कः स्वित् पृच्छामीति होता पृच्छति चौरासीत्। सूर्य एकाकी चरति वेदिमाहुरिति प्रति. वचनं ब्रह्मणः किर स्विदिति प्रश्नस्य द्यौरिति परिहारः, कः स्विदिति प्रश्नस्य सूर्य इति परिहारः पृच्छामि त्वेत्यस्य वेदिमाहारैति पारहारः । प्रश्नवाक्यानि ब्रह्मणो विजय प्रकाशयन्ति, उदा होतारं प्रतीत्यर्थः । एवं कृत्वा प्रातःसर्वनाय संघसर्पतीत्यादिशेष प्रकृतिवत् । सतिष्ठते प्रातःसवनम् ।। ३२ ॥

प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्यास्थि लोम च तिर्यगसंभिन्दन्तः सूकरविशसं विशसतेति संप्रैषवत्कुर्वन्ति ॥ ३३॥

अथ माध्यदिनसवनमुच्यते । माध्यंदिने पशुपुरोडांशानां विकल्पः । सवनीयानी हविष्कृता वाच-विसृज्य गुदं मा निलेषीः इति कृत्वा प्रजापतयेऽश्वस्य शवदादीनां यथा" मुकरों ने विनश्यति - त्वकर्मलोमभिः सहाश्वस्य कण्ठं च्छित्वा प्रयङ्गेषु बधाति । पशूनां (पशु) म्यङ्गेषु लोहितेम शतेन स्विष्टकृतं यजतीति परद्वाजवचनात् ॥ ३३ ॥

अश्वस्य लोहितं स्विष्टकृदर्थं निदधाति ॥ ३४ ॥

नाश्वस्य गुदो विद्यते । कण्ठं गुदस्थाने तूपरगोमृगयो दावेव । पादचतुष्टयं सत्वक् छिद्यते शकृदादीनामाधारभूत मांस प्रक्षाल्य चिर्ने कृत्वा निदधाति । कुम्भ्यामवदाय हृदयवानि सर्वाण्यङ्गानि पच्यन्ते । शूले प्रणीय हृदयम् । अश्वस्य लोहितं रक्तं स्विष्टकदमिति ॥ ३४ ॥

गोमृगकण्ठमश्वशफं च माहेन्द्रस्य स्तोत्रं प्रत्यभिषिञ्चति ॥ ३५॥

गोमगकण्ठादिभिर्होमः । वषट्काराहुतिपक्षे शामित्रे अपणम् । अस्मिन्पक्षे गोमग