पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ । सत्यापाढविरचितं श्रौतसूत्रम्-... [ १४ प्रश्नेनु

गायत्रीत्रिष्टुबिति द्वाभ्यां महिषी हिरण्मयीभिः सूचीभिरश्वस्यासिपथान्कल्पयति ॥ १६॥

शिम्यन्तु त्वेत्यन्तः । राज्ञः पत्न्यनिविधा. उत्तमा मध्यमाऽधमा चेति साश्च महिषी वावाता परिवृक्तीत्येतन्नामधेयाः । ताश्च मृतस्याश्वस्यासिना छेदनाय तत्तत्स्थानेषु रेखाः सूचीभिः कुर्युः ।। १६ ॥

उत्तराभ्यां द्वाभ्यां वावाता राजतीभिरुत्तराभ्यां द्वाभ्यां परिवृक्ती लोहमयीभिरायसीभिर्वा तूष्णीं तूपरगोमृगयोरसिपथान्कल्पयन्ति ॥ १७ ॥

शिम्यन्तु त्वेत्यन्तः । यथा महिषी क्रोअत्प्राचीने मुखभागे लिखति । एवं वावाता क्रोडनाभ्योर्मध्येऽनन्तरभाविना मन्त्रद्वयेन लिखेत् । तत उत्तराभ्यां नारीस्ते० कुविदङ्ग इति द्वाभ्यां परिवृक्ती शेषमित्यापस्तम्बः । लौहीभिः श्रोणीद्वयं समन्ततश्चन्द्रं नाम मेदः स्यान्न च वृषणौ । एवं तूपरंगोमृगयोस्तूष्णीमितिवचनात् । अश्वस्य-ओषधे घायस्वैनमिति दीनन्तर्धानम् ॥१७

यवपिष्टैर्गोधूमपिष्टैर्वा प्रलिम्पन्ति ॥ १८ ॥

न मृदा ॥ १८ ॥

लोम्नामविच्छेदायेति विज्ञायते ॥ १९॥

यवपिष्टलेपनेन लोम न विच्छद्यत इति श्रुत्यन्तरे विज्ञायत इत्यर्थः ॥ १९ ॥

कस्त्वा छ्यति कस्त्वा विशास्तीत्यश्वस्य त्वचमाछ्यति ॥ १४.४.२०॥

तनुवे भुवदित्यन्तः । विशास्ति कस्त्वा छयतीत्यनुवाकेन । स्वधिते मैनमिति मन्त्रस्य प्रत्याम्नायः ॥ २०॥

नाश्वस्य वपा विद्यते ॥ (ख०११) ॥ २१॥

नाश्वस्य वपा ॥ २१॥

चन्द्रं नाम मेदः । तदुद्धरति ॥ २२ ॥

चन्द्र इति वपास्थानीयमेदोविशेषः ॥ २२ ॥

उद्धरतीतरेषां पशूनाम् ॥ २३॥

वपामिति शेषः ॥२३॥

शृतासु वपासूत्तरत उपरिष्टादग्नेर्वैतसे कटेऽश्वस्य तूपरस्य गोमृगस्येति वपा आसादयति ॥ २४ ॥

अश्वाभियुक्तेन सह ज्ञातव्यः । वपाधर्मेणोत्कृन्तामीत्युक्तम् । एवं तूपरगोमृगयोर्वपोद्धरणम् । न कस्त्वा० स्वधिते मैनमेवमितरेषामप्येकादशिनीवत् । शतासु, वपासु यस्त