पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। पटेल ] - महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याल्यासमेतम् । २६३

अम्बे अम्बाल्यम्बिक इति महिष्यश्वमुपसंविशति ॥ ६॥

महिण्यश्वसमीप उपविशति ॥ ६ ॥

तौ सह चतुरः पदः संप्रसारयावहा इति पदः संप्रसारयेते ( यति )॥ ७॥

पादान्संप्रसारयतः ( येत् ) ॥ ७ ॥

अहꣳ स्यां त्वꣳ स्याः सुरायाः कुलजः स्यात्तत्रेमाꣳचतुरः पदौ व्यतिषज्य शयावहा इति पदीं व्यतिषजते ॥ ८॥

अश्वस्य पदोऽन्योन्यं महिषी व्यतिषजति ॥ ८ ॥

सुभगे काम्पीलवासिनीति तार्प्येण वाससाऽध्वर्युर्महिषीमश्वं च प्रच्छादयति ॥ ९॥

गर्भवमित्यन्तः । ताप्यं धृताक्त बस्त्रम् । क्षौमेण वाससाऽध्वर्युर्महिषीमश्वं च प्रमाण (आफ्० औ० २०-१८-३) इत्यापस्तम्बः ॥ ९ ॥

उत्सक्थ्योर्गृदं धेहीति प्रजनने प्रजननꣳ संदधाति ॥ १४.४.१० ॥

परावधीदित्यन्तः । अश्वस्य प्रजनने प्रजननं धारयेत् । मजनम योनिरित्युच्यते ॥ १०॥

अम्बे अम्बाल्यम्बिक इति महिषीं गर्हते ॥ ११ ॥

महिष्यचं कुत्सयति ॥ ११ ॥

ऊर्ध्वामेनामुच्छ्रयतादिति पत्न्योऽभिमेधन्ते ॥ १२ ॥

पुनन्निवत्यन्तः । अभिमेधन्ते मैथुनायाऽऽह्वयन्ति ॥ १२ ॥

त्रिर्महिषी गर्हते । त्रिः पत्नयोऽभिमेधन्त उत्तरयोत्तरयर्चा ॥ १३ ॥

त्रिर्महिषी त्रिः पत्नयः । अम्बे अम्बाल्यम्बिक इति द्वितीया कुन्सा । यद्धरिणीति द्वितीयमभिमेधनम् । अम्बे अम्बाल्पम्बिक इति . तृतीया । इयं यका इति तृतीयमभिमेधनम् । उत्तरे विकल्पार्थे ।॥ १३ ॥

दधिक्राव्णो अकारिषमिति सर्वाः सुरभिमतीमृचं वदन्ति ॥ १४ ॥

तारिषदित्यन्तः । सर्वाः पत्नय ऋचं जपन्ति ॥ १४ ॥

आपो हि ष्ठा मयोभुव इति तिसृभिर्मार्जयन्ते ॥१५॥

च. न इत्यन्तः । शिरस्यप नियन्ति ।। १५ ॥