पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R सत्यापाढचिरचित्तं श्रौतसूत्रम्- १४ मने

ज्ञेयाः सूकरपूर्वकास्तु दशतोऽत्रैकादशैते शतं. सर्वे पञ्चशती भवन्ति पशवोऽथैकोनिता त्रिंशतिः॥ इति सत्याषावहिरण्यकेशिसूत्रल्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रि ...कायां चतुर्दशप्तम्भे तृतीयः पटलः ॥ ३ ॥

14.4 अथ चतुर्दशप्रश्ने चतुर्थः पटलः ।

अम्बे अम्बाल्याम्बिक इति परिश्रिते.प्रतिप्रस्थाता पत्नीमुदानयति ॥१॥

ससस्त्यश्वक इत्यन्तः । अम्ब इत्यादिमा महिषीमलंकृतामुदानयति हस्ते गृह्णाति रमणवदाहयत्येनामेतेन कर्मणेति ॥ १ ॥

ता दक्षिणान्केशपक्षानुदग्रथ्य सव्यान्मखस्य दक्षिणावूरून्नाघ्नानाः सव्यानित्येकेषाम् ॥२॥

आमो देवीः० वाक्त आघ्यायतामित्यादिशमोषधीभ्य इत्यन्तः । एवं कृते पत्न्यो दक्षिणानकेशपाशानित्यादि । अत्र राजपन्यो दक्षिणाम्केशपक्षानुथ्य सत्यायनस्य दक्षिणानूरूनाधानाः सिग्मिरवधून्वत्यस्त्रिः प्रदक्षिणमश्वं धुवन्त्य परियन्ति। अनेन मन्त्रेणेति भाष्यकृत् ॥२॥

गणानां त्वा गणपतिꣳ हवामह इति प्रदक्षिणमश्वं धावन्त्यः परियन्ति ॥३॥

स्पष्टम् ॥ ३ ॥

अवन्तीः स्थावन्तीस्त्वाऽवन्त्विति परीत्य परीत्य जपन्ति ॥४॥

पल्या ॥४॥

सव्यानुद्ग्रथ्य दक्षिणाऽस्रस्य सव्यानूरूनाघ्नाना दाक्षिणानित्येकेषाम् । त्रिः प्रसव्यं त्रिः प्रदक्षिणमन्ततो यथापुरस्तान्नवकृत्व । संपादयन्ति ॥५॥

अथ सव्यानुनथ्य दक्षिणान्प्रस्रस्य सव्यानूरूनाघाना अनमिधूम्वत्यस्त्रिः प्रसव्यं परियन्ति प्रदक्षिणमन्ततो यथा प्रथमे पर्याये । तत्र मृतोपचारभूतसिग्वातस्थानीयं सिग्भिस्वस्यामिधूननं क्रियते ॥ ५ ॥