पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटला . महादेवशास्त्रिसंकालतप्रयोगचन्द्रिकाव्याख्यासमेतम् । २४१

मेषस्त्वा पचतैरवत्विति पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति । पर्यग्निकृतान्ग्राम्यान्पशूनालभन्ते प्रारण्यानुत्सृजन्ति । पर्यग्निकृतानां द्वंद्विनां वडवे पुरुषे वा( षी चा ) त्सृजन्ति ॥ ५५ ॥

मेषस्त्वेत्यपाव्यानि दश नित्यानां निवृत्तिः । पर्यनिकरणे कृते प्रतिनिवृत्तिः । आग्नीध्र आरण्यानुत्सृजन्तीति वैखानसः । वडवे पुरुषे(पी) तन्त्रेण नयनमत्रापि । ये बध्यमाना • प्रमुञ्चमाना ० तन्त्रेणाग्नेहरणम् । अश्वस्य पुरस्तादजो नीयते ॥ ५५ ॥

तार्प्ये च कृत्यधीवासे हिरण्यकशिपौ रुक्मे चाश्वꣳ संज्ञपयन्ति । प्लक्षशाखास्वितरान्पशूञ्श्यामूलेनाश्वꣳ संज्ञपयन्ति । स्पन्द्याभिरितरान्पशून्॥५६॥

घेतसशाखा तस्यां तेनैव ताप्य कृत्त्यधीवास हिरण्यकशिपूनास्तीय रुक्ममुपरिष्टास्कृत्वाऽश्वतूपरगोमान्निवघ्नन्ति । प्लसंशाखास्थितरान् । श्यामूलनाचं श्यामूलं कम्बलम् | स्पन्याभिरितरान् श्रीवायां संवेष्टय रज्जुभिर्गले वेष्टनं कुर्यादित्यर्थः ॥ १६ ॥

प्राणाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमान आहुतीर्जुहोति ॥५७

प्राणाय स्वाहेत्यश्वमेधपठितेनानुवाकेन संज्ञप्यमाने होमः, शमितार एकादशिनीवत् । भरातीयन्तमित्तररशनोदसनमध्वर्यवः ॥ १७ ॥

संज्ञप्ते यदक्रन्दः प्रथमं जायमान इति षोडशभिरश्वस्तोमीयं जुहोति । षट्त्रिꣳशता वा । क्रमैरत्यक्रमीद्वाजीति षट्त्रिꣳशी यामेन साम्ना प्रस्तोताऽनुगायति ॥ (ख० १०)॥५८ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशप्रश्ने तृतीयः पटलः ॥

यामेन साना नाके सुपर्णम् , इत्यनेन साना प्रस्तोताऽश्वमुपतिष्ठते ॥ ५४॥' अश्वस्तूपरगोमृगौ तुरंगपर्यङ्गया दश ज्युत्तराः ।। सस्त्यष्टांदशिनस्त्वशीतिशतक द्वाविंशतिद्वंद्विनः ।। सन्त्येकादशिनस्तथा प्रकृतिनैभविंशतिर्वैकृता श्वातुर्मास्यपशूनवेहि सशतां पश्चधिकां त्रिंशतम् ।। ........: भूयः पञ्चदशेष पञ्चदाशेनो ग्राम्या नवत्युत्तरान् -. . --. .--.आरण्यास्त्रिशतान्यर्थत पशवस्त्वष्टादशारण्यनाः ॥ ... ! -

१. व्युत्तरः । २ क. हितान्।