पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

» से सत्यापाढविरचितं श्रौतसूत्रम्- १४

प्रणेसुमनस्यमाना इत्यन्तः । रथो यस्मिञ्छकटे स्थाप्यत इति तच्छकटं स्थवाहन तस्मि. नयमादधाति स्थापयति ॥ ४४ ॥

आहिते संग्रहीत्राऽवरोहति ॥ ४५ ॥

आहिते स्थापितेश्वे ॥ ४५ ॥

यथोपस्थितमश्वमुपस्थापयन्ति ॥ ४६ ॥

सष्टम् ॥११

लाजी३ञ्छाची३न्यशो ममाँ३ इत्यन्नपरिशेषान्पत्न्योऽश्वायोपयन्ति ॥ ४७॥

प्रनायतः इत्यन्त । रात्री यैर्दशभिरन्नोमाः कृतास्तदन्नशेषेषु लाना अपि विद्यन्ते, तानयमश्वी भक्षयेत् ॥ ४७ ॥

ययोपत्न्युप्तमत्ति तस्मै प्रजा राष्ट्रं भवति ॥ ४८॥

स्वानमत्ति तत्पुत्रस्य राज्यम् ।। ४८॥

आऽक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्ठं पृथिवी सधस्थमित्यश्वमभिमन्त्रयते ॥ ४९ ॥

स्पष्टम्

यथोपाकृतान्नियुञ्जन्ति ॥ १४.३.५०॥

मोष्विति शेषः । ५.51

अश्वे पर्यङ्गेत्यान्यूपेषु प्रान्यान्पशूनारोकेष्वारण्यान्धारयन्ति ॥ ५१ ॥

उपाकृतस्थानेऽश्वं स्थापयित्वोपाकृत्य पञ्चहोमादि अग्नावनिरित्यन्तम् । केचिदुपाकसमानामावग्निहोमान्त कृस्वाऽलंकरणाययोक्तनुषाकृत नियुज्ज्यादश्चमनिछे ।। ६१ ॥

प्रोक्ष्याश्वमुपपाययन्ति ॥ ५२ ॥

भालन्याय स्वाहेति प्रोक्षणं सर्वेषां पायनं च ।। ५२ ॥

यद्युपपाययमानो न पिबेदग्निः पशुरासीदित्युपपाययेत् ॥ ५३ ॥

न पिवेदश्वः पानीयं मन्त्रेण पाययेदध्वर्युः । नैमित्तिकमिदं कर्म। अयं वेद इत्यादिखुच्यमाधार्य पशूनां सर्वेषां समञ्जनम् ॥ ५३॥

समिद्धो अञ्जन्कृदरं मतीनामित्यश्वस्याऽऽप्रियो भवन्ति ॥ ५४ ॥

इदं यानुषं होत्रम् । समिझो अञ्जन्नित्यश्वमेधस्याऽप्रियो मध्यमेऽहन्येक वशेष्टा नुहा सुकुम्वधिनील्यादि सर्वेऽध्वर्यवः पर्यमिकरणं तन्त्रेणैव ॥ १४ ॥