३ पटलः ] महादेवशाखिसकलितपयोगचन्द्रिकाव्याख्यासमेतम् । २३९
रश्मयः इत्यन्तः ।। ३३ ॥
तीव्रान्घोषान्कृण्वते वृषपाणय इत्यश्वान् ॥ ३३ ॥
शत्रूशनपव्ययन्त इत्यन्तः ॥ ३३॥
स्वादुषꣳसदः पितर इति पितॄन् ॥ ३४॥
ईशत इत्यन्तः । तिहाभिः पितृनुपतिष्ठत इत्यापस्तम्बः ॥ ३४ ॥
सुपर्णं वस्ते मृगो अस्या दन्त इतीषुमादत्ते ॥ ३५॥
यसन्नित्यम्तः ॥ ३५ ॥
ऋजीते परिवृङ्धि न इति परिदानं कुरुते ॥ ३६ ॥
यच्छत्वित्यन्तः । परिदानमात्माभिमर्शनम् । अपामुपस्पर्शनं स्मार्तम् ॥ ३९ ॥
आजङ्घन्ति सान्वेषामित्यश्वाजनिमादायाहिरिव भोगैः । पर्येति बाहुमिति इस्तमात्रमभिमृशति ॥ ३७ ॥
विश्वत इति मन्त्रान्तः । अश्वाजनिरश्वप्रेरककशा । हस्तधममिमन्त्रयत इत्यापस्तम्बः। हन्यमानश्चर्मविशेषो हस्तनः ॥ ३७॥
वनस्पते वीड्वङ्गो हि भूयेति पञ्चभी रथम् ॥ ३८ ॥
वीडयस्वेत्यन्तः । धनुरादानादिरथामिमन्त्रणान्तं याजमानमेव ॥ ३८॥
आऽमूरज प्रत्यावर्तयेमा इति दुन्दुभीन्निर्रा॥ दयन्ति ॥ ३९॥
जयन्त्वित्यन्तः । दुन्दुभीन्संहादयन्त्यध्वर्यव इति वैखानसः ॥ ३९ ॥
ये ते पन्थानः सवितः पूर्व्यास इत्युदकान्तमभिप्रेत्याऽऽक्रान्वाजी क्रमैरत्यक्रमीद्वाजीति स्वयंस्वयं वाजिन्नपो जुषस्वेत्यपोऽश्वमभ्यवगाहन्ति ॥ १४.३.४० ॥
उदकान्तमभिप्रेत्याऽऽगत्य स्वं स्वमश्वं प्रथम पाययत्युदकै ततोऽवगाहनम्
यद्वातो अपो अगमदिति प्रदक्षिणमावर्तयते । अत्रैके धूर्योजनमामनन्ति । (ख०९) ॥ यतः प्रयाति तत्रावतिष्ठते ॥ ४१ ॥
रथयुक्तोऽयमश्वो यतो रथशालायाः प्रयातः पुनः प्रादक्षिण्येनाऽऽवृत्तस्सस्यामेव रथशालायामवतिष्ठते । अत्र धूर्योजनं शाखान्तरीयम् ॥ ११ ॥
वि ते मुञ्चामि रशना इत्यश्वं विमुञ्चति ॥ ४२॥
प्रत्यश्वं मन्त्रावृत्तिः॥४२॥
द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठꣳ संमार्ष्टि । ४३ ॥
भिद्भिः समृशति ॥ १३ ॥
रथवाहनमिति सह संग्रहीत्रा रथवाहने रथमादधाति ॥४४॥