२३८ । सत्यापाविरचितं श्रौतसूत्रम्-... [१४. प्रश्ने
शेषः । अथ सौवर्णादिनथितवालेषु कुमार्यः शङ्खमणीनुपनथ्नन्ति । यावान्देशोऽलंकृतस्त देशमाज्येनानक्ति ॥ २२ ॥
वसवस्त्वाऽञ्जन्त्विति गौल्गुलवेनाऽऽज्येन महिष्यश्वमभ्यनक्ति । रुद्रास्त्वाऽञ्जन्त्विति कासां ववे(कौसुम्भे )न वावाता । आदित्यास्त्वाऽञ्जन्त्विति मौस्तकृतेन परिवृक्तिः । विश्वे त्वा देवा वैश्वानरा अञ्जन्त्विति प्रकृतेनेतरा विपरीत एकेऽभ्यञ्जनं मणिप्रतिमोचने समामनन्ति ॥ २३ ॥
गुग्गुलपक्कसर्पिषा महिष्यनक्ति वसवस्त्वा इति । गोल्गुलवेन सुराभिरित्यापस्तम्बक्तिमन्त्रो विकल्पः । कासांववे(कौसुम्भे)न देवदारुपक्वेन चावाता रुद्रास्त्वा० इति । मौस्तक्ततेन पक्केन परिवृत्तिः, आदित्यास्त्वा० इति । स्पष्टमन्यत् ॥ २३ ॥
युञ्जन्ति ब्रध्नमित्यश्वꣳ रथे युनक्ति ॥ २४॥
दिवीत्यन्तः । रथस्य दक्षिणपार्श्व एवालंकृतमश्वं युनक्ति ॥ २४॥
युञ्जन्त्यस्य काम्या हरी विपक्षसेतीतरावश्वौ प्रष्टिवाहिनꣳ रथे युनक्ति ॥ २५ ॥
नृवाहसेत्यन्तः । तस्याश्वस्य सहायभूतावितरौ द्वावश्वौ युनक्ति ॥ २५ ॥
केतुं कृण्वन्नकेतव इति रथे ध्वजमुच्छ्रयति ॥ २६ ॥
समुपद्भिरजायथा इत्यन्तः ॥ २६ ॥
जीमूतस्येवेति कवचमध्यूहते ॥ २७ ॥
पिपवित्यन्तः ॥ २७ ॥
धन्वना गा इति धनुरभिमृशति ॥ २८॥
जयेमेत्यन्तः । यजमानो धनुरादत्त इत्यापस्तम्बवैखानसौ ॥२४॥
वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियमिति ज्याम् ॥ २९॥
पारयन्तात्यन्तः ज्यामभिमशतात्यनुकषः ॥ २९ ॥
ते आचरन्ती समनेव योषेति धनुरार्त्नी ॥ १४.३.३० ॥
अमित्रानित्यन्तः । धनुष आत्नी संमृशतीत्यर्थः ॥ ३० ॥
बह्वीनां पिता बहुरस्य पुत्र इति पृष्ठ इषुधिं विनह्यति ॥ ३१॥
प्रसूत इत्यन्तः । पृष्ठभागे बाणं निनह्यति बध्नाति ॥ ३१ ॥
रथे तिष्ठन्नयति वाजिन इति सारथिमभिमन्त्रयते ॥ ३२ ॥
१ क. निनत्यति।