पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[७] ष्णियोऽरत्निपारमितः समचतुरश्रो भवति । परस्परमष्टादशाङ्गुलः संचरोऽवशिष्यते । होतुधिष्णियस्य दक्षिणतः प्रशास्तुः, तद्दक्षिणतो ब्रह्मसदनम् । होतुधिष्णियस्योत्तरतो ब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानां धिष्णिया होतृधिष्णियवत्कार्याः । षष्ठशङ्कोः पूर्ववत्सदो विमायास्मादेव शङ्कोरुत्तरत एकादशप्रक्रमे सप्तदशप्रक्रमे च शङ्कः । एषाऽऽ- नधिमण्डपस्य पश्चिममर्यादा । अष्टमशङ्कोर्दक्षिणतो द्वादशप्रक्रमे शङ्कुः । एष मार्जाली- ..यस्य मध्यशङ्कुः । एवमुत्तरतः । एष आशीधीयस्य मध्यमशङ्कुः । नवमशङ्कोर्दक्षिणतः सार्धप्रक्रमचतुष्टये शकुः । एवमुत्तरतः । इयं हविर्धानस्य पश्चिममर्यादा । दशमशङ्को- रुत्तरतः पूर्ववदाग्नीध्रमण्डपः । त्रयोदशशङ्कोरुत्तरतश्च चतुर्दशप्रक्रमे शङ्कुः । अयमुत्करः । ततः षट्विंशिकायाः पाशयोर्विपर्यास कुर्यात् । चतुर्दशशङ्कोर्दक्षिणत उत्तरतश्च पूर्व- बद्धविर्धानम् । विंशतिशङ्कोरुत्तरतः सार्धपञ्चदशप्रक्रमे शङ्खः । एष शामित्रः पूर्वप्रा- न्तशङ्कोदक्षिणतो द्वादशप्रक्रमे शकुः । एवमुत्तरतः। इमौ महावेद्याअंसौ । इयं महावेद्याः प्रामादा। अस्मादेवं शङ्कोरुत्तरतस्त्रयोदशप्रक्रमे शङ्कुः । एषा चात्वालदक्षिणमर्यादा। दक्षिण( तो) हविर्धानस्य पश्चात्सार्धप्रक्रमद्वयं त्यक्त्वा पार्श्वयोरपि पादन्यूनप्रक्रम- द्वयं त्यक्त्वाऽरनिमात्रं समचतुरनं कुर्यात् । इदमुपरवाणां स्थानम् । एवं विमाय महावेदि सदो हविर्धानमाग्नीध्रमण्डपं धिष्णियं चात्वालं च रज्ज्वा परिवेष्टयेत् । पारवेष्टितेषु तेषु संभूय प्रमाणम् । महावेदिः षट्त्रिंशत्प्रक्रमायामा पश्चास्त्रिंशत्प्रक्रमविस्तारा पुरस्ताच्च- तुर्विशतिप्रक्रमविस्तारा विषमदीर्घचतुरश्रा भवति । सदश्चाष्टादशवक्रमोदगायतं नवप्रक्रम- 'विस्तारं भवति हविर्धानं तु नवारनिविस्तारं नवायामं भवति । आनीधमण्डपं तु षट्प्रक्रमायाम षटपक्रमविस्तारमर्धमन्तधिष्णियाश्चतुर्विशत्यङ्गुलसमचतुरश्राः । चात्वालः शम्यामात्रः । औदुम्बरीस्थानं तु सदोमध्ये पृष्टयाया दक्षिणतः प्रक्रमे । तु यूपस्थान तु महावेद्याः पूर्वे वेद्यधु वहिर्वेदि, पूर्वप्रान्तशकुरर्धमन्तवेद्य) बहिर्वेदि। प्राग्व- शस्य पश्चात्पत्नीशाला यथासंभव विस्तारायामा। अथाऽग्निविमानम् । पूर्वोक्तपुरुषचतुर्थ सार्धतिलोनैकादशाङ्गुलात्मकं प्रक्रमं कृत्वा तेनाऽग्निं विमिमीयात् । तद्यथा-पूर्वनिहितद्वाविंशतिशङ्कुषु षोडशशङ्क्वोः पुरतः, एकादशशङ्कानिहन्यात् । तत्र क्रमः- :-षोडशद्वयहि(१) (३) भू (१) चन्द्र (१) शशि ११) चन्दै (१) क (१) भूमिषु (१) । चन्द्र (१) क (१) शशि (१) चन्द्रेषु (१) हन्याच्छंकरशङ्घकान् । एवं निहत्य पञ्चविंशतिप्रक्रमात्मिकामेकां रज्जुमुभयतःपाशां कृत्वा तस्यां द्वादशप्रक्रममितायां कर्षणार्थं चिह्नं कुर्यात् । अस्यां द्वादशिका तिर्यग्रज्जु- स्त्रयोदशिकाक्ष्णया रज्जुः । अस्याः पञ्चविंशतिकेति संज्ञा । विमानकालेऽभिमतशङ्कुषु पञ्चविंशतिकापाशयोर्मध्य एवैषा यथा भवेत्तथा कृत्वा विमिमीयात् । षोडशशङ्कुमारभ्य प्रथमादिव्यवहारः । T 1