पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[८] अथ विमानम् । षोडशशङ्की पञ्चिकाया एकं पाशं प्रतिमुच्यान्यं यत्र समो भवति तत्र प्रतिमुच्चैतयोरेव शक्योः पञ्चविंशतिकापाशी प्रतिमुच्य द्वादशिका तिर्यकृत्वा दाल- णतो लक्षणेनापायम्य चतुर्यु प्रक्रमेषु शङ्कुः । एवमुत्तरतः । इदं पुच्छाग्रम् । एवमग्रेऽपि विमाने क्रमो ज्ञेयः । द्वितीयशङ्कोर्दक्षिणतः प्रक्रमे शङ्कुरेवमुत्तरतः । एष प्रथमः पुच्छाप्ययश्चतुर्थशङ्कोर्दक्षिणतः प्रक्रमत्रये शङ्कुत्रये । एवमुत्तरतः । एषोऽपरः पुच्छा- प्ययः । एवं चाग्रेऽष्टप्रक्रमविस्तारो मध्ये द्विपक्रमविस्तारो मूले षट्नकमावस्तारः पञ्चप्रक्रमायामः पुच्छो भवति । अस्मादेव शङ्कोर्दक्षिणतः पञ्चविंशतितिलसहितद्वय. मुलाधिकसप्तप्रक्रमे शङ्कुः । एष पक्षायामः । अस्माच्छङ्कोर्दक्षिणत एकप्रक्रमे शङ्खः । इदं पक्षानम् । एवमुत्तरतः शङ्कुत्रयम् । एवं पञ्चमादित्रिभ्यः शङ्कुभ्यो दक्षिणत उत्त. रतश्च शङ्कुत्रयम् । एवं कृते सार्धपुरुषोदगायामः पुरुषविस्तार आत्मा चतुर्दशतिलाधि- कैकोनाशीत्यङ्गुलोदगायामौ पुरुषमात्रविस्तारौ पक्षौ । पुरुषमात्रप्रागायाम प्रक्रमविस्तारे पक्षाने च भवन्ति । ततो दशमशङ्कोर्दक्षिणतः प्रक्रमे शङ्खः । एवमुत्तरतः । एवमेका- दशशङ्कोर्दक्षिणत उत्तरतश्च प्रक्रमे शङ्क । इदं शिरःस्थानम् । एवं कृते शिरसि प्रक्रमात्म- कानि चत्वारि चतुरश्राणि भवन्ति । तत्राग्रिमचतुरश्रद्वये दक्षचतुरश्र ईशानकोणमा. रम्य निर्गतिकोणपर्यन्तं रेखामालिख्याक्ष्णया भागद्वयं कृत्वाऽऽग्नेयभागं त्यजेत् । उत्त- रचतुरश्र आग्नेयकोणमारभ्य वायव्यकोणपर्यन्तं लेखामालिख्येशानभागं त्यजेत् । पक्षापयोरपि चत्वारि चत्वारि प्रक्रमात्मकचतुरश्राणि कृत्वा दक्षिण(दक्ष)पक्षचतुरश्रेषु शिरोमदक्षचतुरश्रवदाग्नेयमागत्यागः । उत्तरपक्षायचतुरश्रेषु शिरोग्रस्थोत्तरचतुरश्रवदी- शानभागत्यागः । अथ पक्षसंनमनम् । अत्राष्टमप्रक्रमपरिमितामेका रज्जुमुमयतःपाशां कृत्वा तस्या कर्षणार्थ मध्ये चिहं कृत्वा दक्षपक्षायामपश्चिमप्रान्तशङ्कयोः पाशौ प्रतिमुच्य लक्षणेन पूर्वतः कर्पयेत् । चिह्न यत्र पतति तत्र शकुं निहन्यात् । एवं दक्षपक्षायामपूर्वप्रान्तशब्क्योः पाशौ प्रतिमुच्य पूर्ववदाकृष्य चिह्न यत्र पतति तत्र शकुं निहन्यात् । एवं कृते पक्ष- पूर्वोन्नतः पश्चिमनिम्नो भवति । एवमुत्तरपक्षस्यापि विमानम् । ततः सर्वतः स्पन्धया । वेष्टयेत् ॥ प्रयोगचन्द्रिकावृत्तेः(त्तिः)सत्याषाढमुनेचः । कल्पसूत्रस्येह कृतः सूत्रार्थन्यायनिर्णयः ॥ शेखरे चन्द्रचूडस्य तुष्टयेऽस्तु मयाऽर्पितः । गृह्णाति हि किमप्येष भक्तैर्यद्यत्ततः कृतम् ।। इति सत्याषाढचयनसूत्रोपोद्घातः । १ अनन्तरमष्टमशड्कोः पाशौ विपर्यस्य दक्षिणत उत्तरतश्च शकुत्रयम् ।