पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ ... सत्यापाढविरचितं श्रौतसूत्रम्- [१५ प्रमे

हूत्याऽऽदधाति । एवमन्तमहः । तत्र विशेषः-हार्यो(रियो)जने श्वः सुव्यमिति प्रेषो महत्वृत्वमतात् । सूक्तवाक इत्यापस्तम्बमते । तच्छृत्वाऽऽनिश्चापि प्रेष्यति । प्रज्ञाप्रतिना तुल्य इति गानम् । एवं कृतेऽस्तमिो पनि शतमुपतल्पान्मिन्वति ॥ १॥

अस्तमित आदित्ये षट्त्रिंशतमुपतल्पनारुह्यैकस्मै स्वाहा इत्येतैरनुवाकैः खादिरैः स्रुवैः सर्वाꣳ रात्रिमन्नहोमाञ्जुह्वति ॥ २॥ आज्यं मधु तण्डुलान्पृथुकाँल्लाजान् करम्भान् धानाः सक्तून्मसूस्यानि प्रियङ्गुतण्डुलाꣳश्चाऽऽज्येनान्नेनेति ॥ ३ ॥ व्यत्यासं जुह्वत्ययुज आज्येन युजोऽन्नेनान्ततो जुह्वति ॥ ४ ॥

ततो दक्षिणतन्धोत्तरतन्धोपतल्पानासाद्य षटत्रिशुध्वर्यव उपाकृताः खादिरैदीर्घ दण्डैः स्वैः सर्वां रात्रिमन्नहोमाजुह्वति । मधु मक्षिकम् । तण्डुला ब्रीहिभिनिष्पन्नाः । पृथुकाश्चिपिटकाः । लाजा ब्रीहिप्रथवाः पुष्पवद्विकसिताः । करम्भा आज्यमिश्रिताः सक्तवः । धाता, अर्जितयवतण्डुलाः । सक्तवो . भर्जिततण्डुलपिष्टानि । मसूस्यानि, एते: नैव नाम्नोत्तरदेशे. प्रसिद्धो धान्यविशेषः । येन सूपनिष्पत्ति । प्रियशुतण्डुलास्तु हेमसमानबर्णत्वात्प्रियाङ्गाः । दशद्रव्याणां मिश्रीकृत्य होमः। दुशान्नानि जुहोति ( ने ब्रा० ३-८-१४ ) इति । अत्राऽऽपस्तम्बोऽपि-चतुष्टयमेत समामनन्ति । आज्येन जुहोति लाजैर्जुहोति धानाभिर्नुहोति सक्तुभिर्नुहोति । एकस्मै स्वाहा इत्येतेषामनुवाफानामयुज आज्येन युजोऽन्नेन । आज्येनान्ततः (आप. औ० २०-१०-७) इति । एकस्मै स्वाहेति प्रथमतृतीयपञ्चमसप्तमनवमा अयुज अज्येन, द्विवीयचतुर्थषष्ठाष्टमदशमा युजोऽन्नेन ॥ २ ॥ ३ ॥ ४ ॥

अत्रैके प्रयुक्तानां प्रयोक्ष्यमाणानां च मन्त्राणामुपयोगꣳ समामनन्ति ॥ ५ ॥उषसे स्वाहेत्युषसि जुह्वति व्युष्ट्यै स्वाहेति व्युष्टायाम् । उदेष्यते स्वाहेत्युदेष्यति । उद्यते स्वाहेत्युद्यति । उदिताय स्वाहेत्युदिते । सुवर्गाय स्वाहा लोकाय स्वाहा इत्यन्ततो जुह्वति । अन्नपरिशेषान्निदधाति ॥६॥

एवमेताननुवाकान्पुनः पुनरम्यासं : रात्रिशेष हुत्वा । अन्येऽभ्यासे संस्थाने वाडनुवाकेनाऽऽज्येन । अनुवाकस्यान्ततः सर्वस्मा . इत्यन्ततः । उषसे स्वाहेत्यादीनामेव