पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटल:.]. महादेवशाखिसंकलितप्रयोग चन्द्रिकान्याख्यासमेतम् । २२७

महारान्ने बुद्ध्वा गोतमचतुष्टोमयोः पूर्वम् । ध्रुवां प्रयुज्याग्निष्टोमवत्थोडशिपात्रं, हृदे स्वेत्युहः। पर्याप्तमुपावहृत्य, अभियुनज्मीत्यादिसर्वमग्निष्टोमवत् । पशुकाल आग्नेयं सवनीयपशुमैकादशिनान्वा ॥ ४२ ॥

दक्षिणाकाले मध्यमं प्रतिराष्ट्रस्य यदन्यद्ब्राह्मणानां दिक्षुवित्ताद्भूमेः सेनाभ्यः पुरुषेभ्यश्च । तत्त्र्यहे समशः प्रतिविभज्यान्वहं ददाति ॥ ४३ ॥

दक्षिणाकाले प्राप्ते यहाह्मणानां दिक्षु न्यायधनं यस्मिन्नश्व उत्सृष्टस्तत्प्रभृति संचित धनं ध्यहे समशेऽन्वहं ददाति ॥ ४३ ॥

प्राचीं दिशमध्वर्यवे दक्षिणां ब्रह्मणे प्रतीचीꣳ होत्र उदीचीमुद्गात्रे ॥ ४४ ॥

प्रागादिदिग्धनमध्ववादिभ्यः कमाइदाति ॥ ४४ ॥

अपि वा प्राचीꣳ होत्रे । प्रतीचीमध्वर्यवे । एतदेवान्वायन्ति होत्रकाः ॥ ४५॥

अपि वेति पलान्तरप्रदर्शनार्थम् । अन्नाप्यापस्तम्बीये विशेषः-महिषीं ब्रह्मणे ददाति। वावाता होने । परिवक्ती(क्ति)मुद्गात्रे | पालाकिलीमध्वर्यव इति विज्ञायते(आप.श्री०२० २-१०-१२) इति । महिषीं बहाणे ददातीति वचनात्तासामपि धनं ददातीत्यर्थः । अग्निदक्षिणाऽध्वर्यवे कल्याणीरित्यादि ॥ १५ ॥ ।

पत्नीसंयाजान्तमहः संतिष्ठते । (ख०६) । ४६ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशप्रश्ने द्वितीयः पटलः ॥२॥

विषाणापासनान्ते यज्ञायज्ञीयेऽग्निष्टोमसाम्नि वर्तमाने चतुष्टय्य आप इत्यादि वसतीवरीगुहाति । एकया प्रस्तुतमित्यादि पत्नीसंयाजान्तमहः संतिष्ठते परिसमाप्यतं इत्यर्थः ॥ ४६॥ इति सत्याषादहिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगच न्द्रिकायां चतुर्दशप्रश्ने द्वितीयः पटलः ।

14.3 अथ चतुर्दशप्रश्ने तृतीयः पटलः ।

अभित आहवनीयꣳ षट्त्रिꣳशतमुपतल्पान्मिन्वीत ॥१॥

नसल्यविसर्गः परिहरन्ति पत्नम्यि उदकमियीन्त, पत्नीनां पन्येजनार्थम्() । समिधमा..... ........ . . मेण।