पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ सत्यापाढविरचितं श्रौतसूत्रम्- : १४ प्रश्नै

आतिच्छन्दसाय त्रयस्त्रि शाय रैवताय शैशिराय जुष्टं० अदित्यै विष्णुपत्न्य अ. अग्नये वैश्वानराय जुष्टं ० अनुमत्य जुष्टं ० काय जुष्टं ० इत्यादि उत्करे विनिनीय यथाभागमित्यादि कपालान्युपधाय प्रातदोहकर्म निष्टपनादि कामधुक्ष० मित्रावरुणाम्यामानुटुब्भ्यामेकविशाभ्यां वैराजाभ्या५ शारदाम्या हविरिन्द्रियामितिनिगमाः । पिण्डं कृत्वा च्यावर्तध्वमिति त्रिः । अथवा व्यावध्विमिति चर्वन् व्यावर्तध्वमितिपुरोडाशान् व्यावं. तैयामिति पुरोडाशौं । अधिश्रयणादि । परिधीन्परिदधाति गन्धर्वोऽसीति नास्ति, कस्त्वेत्यस्यामिष्टा । तेषां प्रत्याम्नायः । अस्य यज्ञस्येति त्रिष्वप्यनुषङ्गः। नात्रामुष्मा इति कायस्य नामग्रहणं कायानुब्रूहि कंयज । एककपालधर्मेण प्रचारः । मधुश्च स्वाहेत्यादि ब्राह्मणतपंणान्तेयमिष्टिः ॥ ३५ ॥

समिद्दिशामिति याज्यानुवाक्या भवन्ति ॥ ३६॥

इदं याजुषं होत्रम् ।। ३६ ॥

कस्त्वा युनक्ति स त्वा युनक्त्विति परिधीभ्युनक्ति ॥ ३७ ॥.

गतम् ॥ ३७॥

रथवाहने हविर्धाने राज्जुदालमग्निष्ठमेकविꣳशत्यरत्निं संमिनोति ॥ ३८॥

वसोर्धाराऽग्निवत् । हविर्धानप्रवर्तनकाले रथवाहने हविर्धानार्थे. भवतः । स्थवाहनसमर्थे अनसी । यूपसंमानकाले राज्जुदालमेकविशत्यरत्निमग्निष्ठं मिनोति ॥ ३८॥

पौतुद्रवावभितो भवतः ॥ ३९॥

पौतुद्रवी देवदारुमयौ दक्षिणत उत्तरतश्च ।। ३९ ॥

त्रयः खादिरा दक्षिणतस्त्रय उत्तरतः । त्रयो बैल्वाः पालाशा दक्षिणतस्त्रय उत्तरतो बैल्वानेक उत्तमान्त्समामनन्ति पालाश उपशयः ॥ १४.२.४० ॥

इत्येवमादिव्यत्यासेन मानम् । तत उपशयनिधानम् । अग्नीषोमीययागः ॥१०॥

चतुष्टय्य आपो दिग्भ्यः समाभृता वसतीवरीर्गृह्णाति ॥४१॥

सतः सुब्रह्मण्यान्ते चतुष्टय्य इत्यादि देवयनन एव पशुपुरोडाशादिदेवसुवा हवींषि, याजमानस्येत्यत्र । सुब्रह्मण्यान्ते वीणावादी प्रजापतितुल्य इति गायति ॥ ४१ ॥

श्वोभूते प्रतायते चतुष्टोमोऽग्निष्टोमो गोतमचतुष्टोमयोः पूर्वः ॥ ४२ ॥ पशुकाल ऐकादशिनान्पशूनुपाकरोति ॥ ४२ ॥