पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्रम्- : [ १४ प्रो

त्रिꣳशिमास एष संवत्सरो भवति ॥ १९ ॥

एवं साधिवेष्टयादि गृह एवान्वहं संवत्सरं गानान्तानि क्रियन्ते । सावनाच्चान्द्रमासोक्तस्याउंगामिन्या वैशाखपौर्णमास्या उपरिष्वादमावास्याया उर्ध्वमपि सावित्रेष्ट यादीनि । एष संवत्सरो त्रिशम्मासात्मको वर्तत इत्यर्थः ॥ १९ ॥

ऊर्ध्वमेकादशान्मासादाश्वत्थे व्रजेऽश्वं बध्नाति ॥१४.२.२०॥

संपूर्ण एकादशमासे 'तृतीयाप्रभृति । अश्वत्थमये गृहे काष्ठे मडीरा(टीर)शकोर(काव)श्वं बध्नन्त्यश्वपरिचारकाः ॥ २० ॥

तस्मै बद्धाय यवसमाहरन्ति ॥ २१ ॥

स्पष्टोऽर्थः ॥ २१ ॥

यद्यश्वमुपतपद्विन्देदाग्नेयमष्टाकपालं निर्वपेदिति ब्राह्मणव्याख्यातान्यश्वप्रायश्चित्तानि ॥ २२॥

यानि ब्राह्मणव्याख्यातान्यश्वप्रायश्चित्तानि सान्यापस्तम्बोऽपि सूत्रयामास--- 'यद्यश्वमपातपद्विन्देदाग्नेयमष्टाकपालं निवपेत्सौम्यं चरुं सावित्रमष्टाकपालम् । पोष्णं चरुं यदि लोणः । रौद्रं च यदि महती देवताऽमि मन्येत । वैश्वानरं द्वादशकपालं मिर्वपेन्मृगाखरे यदि नाऽऽगच्छेत् । यद्यधीयादग्नयेऽहोमुचेऽष्टाकपालः सौर्य पयो वायव्य आज्यभागः । यदि बडवामधीयात्प्राजापत्यं चरु द्वादशकपालं बा । यदि नश्येद्वायव्यं बरुम् । यदि सेनाऽभीत्वरी-विन्देतेन्द्राय यात एकादशकपालम् । यदि प्रसहा(ह्याऽऽ)नयेयुरिन्द्राय प्रसाहन एकादशकपालम् । यद्यन्धः स्यात्सौर्य चरुमेककपालं वा । यदि श्वभेऽवपतेद्वैष्णवं चरुम् । यद्यविज्ञातेन यक्ष्मणा नियेत प्राजापत्यं चरुं द्वादशकपालं वा । यद्यमित्रा अश्वः विन्देरन्हन्येतास्य यज्ञः । अथान्यमानीय प्रोक्षेयुः' ( आप० श्री. २०-८-२) इति । उपतपसंतापको रोगविशेषः । श्लोणो दुष्टत्वक् । लौण्यस्य त्वग्दोषस्य चिकित्सक पूषा । महती देवता रुद्रः पशूनामधिपतिः । तस्मिन्पशुष्वभिमन्यमाने सति ज्वरादिना पशः पीयते । अश्वस्य पशुत्वेन रुद्रदेवत्यत्वाद्रौद्रयागेऽनुष्ठिते सति स्वकीययैव देवतया:चिकित्सितबदोगरहितो भवतीत्यर्थः । मृगस्याश्वस्याऽऽखरः सुत्येऽहनि निवासस्थामं स्तनामनामाने वैश्वानरेष्टिं कुर्यात् । वडवां गर्दभी वा चिन्तयेदारोहेद्वा । आज्यमेव मागो भृजनीय हविः । आज्यभागस्योपांशुयाज( ग )वत् । यदि वडवामारो. हेस्मरेता प्राजापत्य चरुम् । यदि सर्वत्र न दृश्येत वायव्यं चरुम् । यदि सेतोऽभीत्वरी अभिगमनशीलो वारितगमनो वा, इन्द्राय यजेत । प्रसह्य बलेन नयेयुः, इन्द्राय प्रसा